अध्यायः 229

मार्कण्डेयेन युधिष्ठिरंप्रति स्कन्दचरित्रप्रतिपादनम् ॥ 1 ॥ इन्द्रेण स्कन्दस्य देवसैनापत्येऽभिषेचनम् ॥ 2 ॥ स्कन्देनेन्द्रप्रार्थनया देवसेनाया उद्वहनम् ॥ 3 ॥

मार्कण्डेय उवाच ।
ततः प्रकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत् । काकी च हलिमा चैव माता चाथ हली तथा ।
आर्या बाला च धात्री च सप्तैता शिशुमातरः ॥
एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः ।
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥
एष वीरोऽष्टमः प्रोक्तः स्कन्दो मातृगणोद्भवः ।
छागवक्रेण सहितो नवमः परिकीर्त्यते ॥
षष्ठं छागमयं वक्रं स्कन्दस्यैवेति विद्धि तम् ।
षट््शिरोभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते ।
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥
इत्येतद्द्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् ।
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥
उपविष्टं तु तं स्कन्दमामुक्तकवचस्रजम् ।
हिरण्यचूडमुकुटं हिरण्यांक्षं महाप्रभम् ॥
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् ।
सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् ॥
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् ।
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥
श्रिया जुष्टः पृथुयशाः स कुमारो वरस्तदा ।
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् ॥
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥
हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव ।
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥
अभयंच पुनर्दत्तं त्वयैवैषां सुरोत्तम ।
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः ॥
स्कन्द उवाच ।
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः ।
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥
ऋषय ऊचुः ।
इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम् ।
तुष्टः प्रयच्छति तथा सर्वान्कामान्सुरेश्वरः ॥
दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति ।
अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥
असूर्ये च भवेत्सूर्यस्तथाऽचनद््रे च चन्द्रमाः ।
भवत्यग्निश्च वायुश्च पृथिव्यापश्च स्वं तथा ॥
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् ।
त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व न ॥
शक्र उवाच ।
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः ।
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥
स्कन्द उवाच ।
शाधि त्वमेव त्रैलोक्यमव्याग्रे निजये रतः ।
अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम् ॥
शक्र उवाच ।
बलंतवाद्भुतं वीर त्वं देवानामरीञ्जहि ।
अवज्ञास्यन्ति मां लोका वीर्यण तव विस्मिताः ॥
इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम् ।
`त्वत्तेजसाऽवमंस्यन्ति लोका मां सुरसत्तम' ॥
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ।
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति ॥
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ।
विग्रहः संप्रवर्तेत भूतभेदान्महाबल ॥
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि ।
तस्मादिन्द्रो भवानेव भविता मा विचारय ॥
स्कन्द उवाच ।
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च ।
करोमि किं च तेशक्र शासनात्तद्ब्रवीहि मे ॥
इन्द्र उवाच ।
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ।
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ॥
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ।
अभिषिच्यस्व देवानां सैनापत्ये महाबल ॥
स्कन्द उवाच ।
दानवानां विनाशाय देवानामर्थसिद्धये ।
गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम् ॥
मार्कण्डेय उवाच ।
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह ।
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥
तत्र तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत ।
तथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी ।
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥
आगम्य मनुजव्याघ्र सह देव्या परंतप ।
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः ।
`कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः' ॥
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ।
पावकस्येनद्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वेदिवौकसः ।
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतांवरम् ॥
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः ।
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा ।
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥
अरजे वाससी रक्ते वसानः पावकात्मजः ।
भाति दीप्तवपुः श्रमान्रक्ताभ्राभ्यामिवांशुमान् ॥
कुक्कुटश्चाग्निना दत्तस्तस् केतुरलंकृतः ।
रथे समुच्छितो भाति कालाग्निरव लोहितः ॥
या चेष्टा सर्वभूतानां प्रभा शक्तिर्बलं तथा ।
अग्रतस्तस्य सा शक्तिर्देवानां जयवर्धनी ॥
विवेश कवचं चास्य शरीरं सहजं तथा ।
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥
शक्तिर्धर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः ।
ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ॥
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् ।
स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः ।
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥
इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि ।
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥
एतैश्चान्यैश्च बहुभिस्तुष्टैर्हृष्टैः स्वलंकृतः । [सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा ।]
क्रीडन्भाति तदा देवैरभिषिक्तश्च पावकिः ॥
अभिषिक्तं महासेनमपश्यन्त दिवौकसः ।
विनिहत्य तमः सूर्यं यथैवाभ्युदितं तथा ॥
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः ।
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतो दिशः ॥
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः ।
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि ॥
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा ।
सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् ।
संचिन्त्य त्वानयामास देवसेनां ह्यलंकृताम् ॥
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम ।
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा ॥
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् ।
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा ॥
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि ।
बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च ॥
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः ।
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम् ॥
सिनीबालीं कुहूं चैव सद्वृत्तिमपराजिताम् ।
`इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते' ॥
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया ।
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥
श्रीजुष्टः पञ्चमीस्कन्दस्तस्माच्छ्रीः पञ्चमी स्मृता । षष्ठ्यां कृतार्थोऽभूद्यस्थात्तस्मात्षष्ठी महातिधिः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोनत्रिंशदधिद्विशततमोऽध्यायः ॥ 229 ॥

3-229-27 शसनं तद्द्रवीहि इति झ. पाठः ॥ 3-229-35 रुद्रमग्निमिति । रुद्रो वा एष यदग्निरित श्रुतिविदो द्विजाः प्राहुः ॥ 3-229-38 अनुप्रविश्य स्थितेनेति शेषः ॥