अध्यायः 230
मार्कण्डेयेन युधिष्ठिरंप्रतिस्कन्दचरित्रकीर्तनम् ॥ 1 ॥
श्रिया जुष्टं महासेनं देवसेनापतीकृतम् ।
सप्तर्षिपत्नयः षड् देव्यस्तत्सकाशमथागमन् ॥
ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः ।
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥
वयं पुत्र परित्यक्तां भर्तृभिर्देवसंमितैः ।
अकारणाद्रुषा तैस्तु पुण्यस्थानात्परिच्युताः ॥
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् ।
तत्सत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो ।
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥
स्कन्द उवाच ।
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः ।
यद्वापीच्छत तत्सर्वं संभविष्यति वस्तथा ॥
मार्कण्डेय उवाच ।
विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत् ।
उक्तः स्कन्देन ब्रूहिति सोऽब्रवीद्वासवस्ततः ॥
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा ।
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥
तत्र मूढोस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् ।
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥
धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः ।
रोहिणो ह्यभवत्पूर्वमेवं सङ्ख्या समाभवत् ॥
एवमुक्ते तु शक्रेण त्रिविदं कृत्तिका गताः ।
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः ।
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥
स्कन्द उवाच ।
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् ।
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥
मार्कण्डेय उवाच ।
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् ।
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ।
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥
`तासां तु वचनं श्रुत्वास्कन्दो वचनमब्रवीत्' ।
मातरो हि भवत्यो मे भवतीनामहं सुतः ।
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥
मातर ऊचुः ।
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः ।
अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत् ॥
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ ।
प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥
स्कन्द उवाच ।
वृत्ताः प्रजा न ताः प्रक्या भवतीभिर्निषेवितुम् ।
अन्प्रां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा ॥
मातर ऊचुः ।
इच्चाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः ।
त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥
स्कन्द उवाच ।
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् ।
परिरक्षत भद्रं वः प्रजा साधुनमस्कृताः ॥
मातर ऊचुः ।
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि ।
त्वया नो रोचते स्कन्द सहवासश्चिरंप्रभो ॥
स्कन्द उवाच ।
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः ।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।
परमं तेन सहिताः सुखं वत्स्यथ पूजिताः ॥
मार्कण्डेय उवाच ।
ततः शरीरात्स्कन्दस्य परुषः पावकप्रभः ।
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥
अपतत्सहसा भूमौ विसंज्ञोऽथ क्षुधार्दितः ।
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ॥
स्कन्दापस्मार इत्याहुर्गृहं तं द्विजसत्तमाः ।
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ॥
मातॄणां राक्षसंप्राहुस्तं विद्यात्पूतनाग्रहम् ।
कष्टा दारुणरूपेण घोररूपा निशाचरी ॥
पशाची रदारुणाकारा कथ्यते शीतपूतना ।
गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।
सोऽपि बालान्महागोरो बाधते वै महाग्रहः ॥
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् ।
अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा ॥
कुमाराश्च कुमार्यश् ये प्रोक्ताः स्कन्दसंभवाः ।
तेऽपि गर्भभुजः सर्वे कौरव्यसुमहाग्रहाः ॥
तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः ।
आजायमानान्गृह्णन्ति बालकान्रौद्रकर्मणः ॥
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप ।
शकुनिस्तामथारुह्यसह भुङ्क्ते शिशून्भुवि ॥
सरमा नाम या माता शुनां देवी जनाधिप ।
साऽपिगर्भान्समादत्ते मानुषीणां सदैव हि ॥
पादपानां च या माता करञ्जनिलया हि सा ।
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी ॥
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ।
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ॥
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ।
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ ॥
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ।
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ॥
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ।
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ॥
उपविष्टं ततो गर्भं कथयनति मनीषिणः ।
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ॥
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ।
पुरुषे तु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि ॥
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ।
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः ॥
यावत्षोडश वर्षाणि शिशूनां ह्यशिवास्ततः ।
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैवये ग्रहाः ॥
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ।
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् ।
बलिकार्गेपहाराश् स्कन्दस्येज्या विशेषतः ॥
एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् ।
आयुर्दीर्घं च राजेनद्रसम्यक्पूजानमस्कृताः ॥
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् ।
तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोपि वा ।
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् ।
उन्माद्यतिस तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् ।
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् ।
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥
गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि ।
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति ।
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः ॥
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये ।
उनमाद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥
यस् दोषैः प्रकुपितं चित्तं मुह्यति देहिनः ।
उनमाद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् ।
उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम् ॥
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः ।
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् ।
अतः परं देहिनां तु ग्रहतुल्या भवेञ्जरा ॥
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् ।
आस्तिकं श्रद्दधानं च वर्जयन्ति तदा ग्रहाः ॥
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः ।
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि
त्रिंसदधिकद्विशततमोऽध्यायः ॥ 230 ॥
3-230-4 असत्यमेतत्संस्कृत्य इति ध. पाठः ।
अपत्यमेतत्संस्मृत्य इति ट. थ. पाठः ॥ 3-230-7 विवक्षन्तमभिजिन्नक्षत्रस्
पतनान्नक्षत्रसंख्या कथं समा भवेदिति प्रष्टुमिच्छन्तम् ॥ 3-230-8 कन्यसी
कनिष्ठा । वनं गता अधिकारं त्यक्तेति शेषः ॥ 3-230-10 यस्य नक्षत्रस्याद्यक्षणे
चन्द्रसूर्यगुरूणां योगस्तद्युगादिनक्षत्रम् । तच्चपूर्वं रोहिण्यभूत् ।
तदाभिजित्पतनकाले त्वेकन्यूनैरहोरात्रैर्भगणस्य भोगात् कृतयुगादिनक्षत्रं
धनिष्ठैवाभवदित्यर्थः । संख्या कलाकाष्ठादीनाम् ॥ 3-230-11 तथा च कृत्तिकाभिरेव
नक्षत्रसंख्यापूर्ति कुर्विति शक्राशयं ज्ञात्वा तास्त्रिदिवं गताः । नक्षत्रं
सप्तशीर्षाभं इति झ. पाठः ॥ 3-230-12 ऋषिपत्नीनामिव गरुत्मत्या अपिरूपं
स्वाहया धृतमिति त्सुतत्वं बोध्यम् ॥ 3-230-13 स्नुषया देवसेनया ॥ 3-230-14
मातृगणो विनतादिसमूहः ॥ 3-230-16 ताः प्रसिद्धाः मातरो
ब्राह्मीमाहेश्वरीप्रभृतयः ॥ 3-230-17 त्वत्कृते त्वदर्थं
ताभिर्ब्राह्मयादिभिरस्मद्भर्तॄन् मिथ्याभिशापदोषेण कोपयन्तीभिः प्रजा हृताः
सङ्गाभावादित्यर्थः । संधिरार्षः । नोऽस्मभ्यं प्रयच्छ भर्तॄणामनुकूलनेनेत्यर्थः ॥ 3-230-18 वृत्तामया दत्ता अपि । मया प्रार्थिता अपि मुनयो युष्मान्
नाङ्गीकरिष्यन्तीति भावः ॥ 3-230-19 मातॄणां ब्राह्मयादीनाम् । तासां
प्रजानामीश्वराः पित्रादयः ॥ 3-230-20 प्रजाः अस्मदाद्याः । नमस्कृता यूयं
मयेति शेषः ॥ 3-230-32 अज्ञायमाना गृहन्ति इति ध. पाठः ॥ 3-230-38 मुजाता
हरिणी या तु सा गर्भं पिबति प्रभो इति ट. थ. ध.पाठः ॥