अध्यायः 234

सत्यभामया पतिवशीकरणोपायं पृष्टया द्रौपद्यातदुत्तारदानव्याजेन पतिव्रताधर्मकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
उपासीनेषु विप्रेषु पाण्डवेषु च भारत ।
द्रौपदी सत्यभामा च विविशाते तदा समम् ॥
`प्रविश्य चाश्रमं पुण्यमुभे ते परमस्त्रियौ' ।
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥
चिरस् दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे ।
कथयामासतुश्चित्राः कथाः कुरुयदूचिताः ॥
अथाब्रवीत्सत्यभामा कृष्णस् महिषी प्रिया ।
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि ।
लोकपालोपमान्वीरान्नूनं परमसंमतान् ॥
कथं च वशगस्तुभ्यं न कुप्यन्ति च ते शुभे ।
तव वश्या हि सतत पाण्डवाः प्रियदर्शने ॥
`न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे' ।
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ॥
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा ।
विद्यावीर्यं मूलवीर्यंजपहोमागदास्तथा ॥
ममाद्याचक्ष्वपाञ्चालि यशस्यं भगवेतनम् ।
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥
एवमुक्त्वासत्यभामा विरराम यशस्विनी ।
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥
असत्स्त्रीणां समाचरं सत्ये मामनुपृच्छसि ।
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥
अनुप्रश्नः संशयो वा नैष त्वय्युपपद्यते ।
कथं ह्युपेता बुद्ध्या त्वंकृष्णस् महिषी प्रिया ॥
यदैव भर्ता जानीयानमन्त्रमूलपरां स्त्रियम् ।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् ।
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥
किमत्रप्रहिताश्चापि गदाः परमदारुणाः । मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः बब
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते ।
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा ।
अपुमांसः कृताः स्त्रीभिर्जडान्धवधिरास्तथा ॥
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत ।
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन ॥
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु ।
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥
अहंकारं विहायाहं कामक्रोधौ च सर्वदा ।
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥
प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि ।
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥
दुर्व्याहृताच्छङ्कमाना दुस्थिताद्दुरवेक्षितात् ।
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥
सूर्यवैश्वानरसमान्सोमकल्पान्महारथान् ।
सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः ॥
देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः ।
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥
न भुक्तवति न स्नाते नासंविष्टे च भर्तरि ।
न संविशामि नाश्नामि न स्नाये कर्म कुर्वती ॥
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गुहमागतम् ।
अभ्युत्थायाभिनन्दामि आसनेनोदकेन च ॥
प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी ।
संयता गुप्तधान्या च सुसंमृष्टनिवेशना ॥
अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती ।
अनुकूलवती नित्यं भवाम्यनलसा सदा ॥
अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः ।
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥
`अत्यालापमसन्तोषं परव्यापारसंकथाः' ।
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये ॥
निरताऽहं सदा सत्ये पापानां च विवर्जने ।
सर्वथा भर्तुरहितं न ममेष्टं कथंचन ॥
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् ।
सुमनोवर्णकापेता भवामि व्रतचारिणी ॥
यच्च भर्ता न पिबति यच्च भर्ता न सेवते ।
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ॥
यथोपदेशं नियता वर्तमाना वराङ्गने ।
स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता ॥
ये च धर्माः कुटुम्बेषु श्वश्र्वामे कथिताः पुरा ।
`अनुतिष्ठामि तान्सत्ये नित्यकालमतन्द्रिता' ॥
भिक्षाबलिश्राद्धविधिस्थालीपाकाश्च पर्वसु ।
मान्यानां मानसत्कारा ये चान्ये विदिता मम ॥
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता ।
विनयाननियमांश्चैव सदा सर्वात्मना श्रिता ॥
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः ।
स देवः सा गतिर्नार्यास्तस्य का विप्रियं चरेत् ॥
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः ।
स देवः सा गतिर्नार्यास्तस्य काविप्रियं चरेत् ॥
अहं पतीन्नातिशये नात्यश्ने नातिभूषये ।
नापि श्वश्रूं परिवदे सर्वदा परियन्त्रिता ॥
अवधानेन सुभगे नित्योत्थिततयैव च ।
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च ॥
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् ।
स्वयं परिचराम्यतां पानाच्छादनभोजनैः ॥
नैतामतिशये जातु वस्त्रभूषणभोजनैः ।
न वदे चाप्यतिवाचा तां पृथां पृथिवीसमाम् ॥
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।
त्रिंशद्दासीक एकैको यान्विभर्ति युधिष्ठिरः ॥
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥
तान्सर्वानग्रहारेण ब्राह्मणान्वेदवादिनः ।
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः ।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः ।
मणीन्हेम च विभ्रत्यो नृत्तगीतविशारदाः ॥
तासां नाम च रूपंच भोजनाच्छादनानि च ।
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः ।
पात्रीपस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥
शतमश्वसहस्राणि दशनागायुतानि च ।
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् ।
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ॥
अन्तःपूराणां सर्वेषां भृत्यानां चैव सर्वशः ।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥
सर्वं राज्ञः समुदयमायं च व्ययमेव च ।
एकाऽहंवेद्मि कल्याणि पाण्डवानां यशस्विनि ॥
मयि सर्वं समासज्यकुटुम्बं भरतर्षभाः ।
उपासनरताः सर्वे घटयन्ति वरानने ॥
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः ।
सुखं सर्वंपरित्यज्यरात्र्यहानि घटामि वै ॥
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् ।
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥
अनिशायां निशायां च विहाय क्षुत्पिपासयोः ।
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥
प्रथमं प्रतिबुध्यामि चरमं संविशामि च ।
नित्यकालमहं सत्ये एतत्संवननं मम ॥
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् ।
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीं ॥
अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे । कामकारः सखीनं हि सोपहासं प्रभाषितम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥

3-234-1 सममेकत्र । विविशाते तदाश्रममिति ध.पाठः ॥ 3-234-2 जाहस्यमाने परस्परमतिशयेन हसन्त्यौ ॥ 3-234-8 मूलवीर्यं मूलं अप्रच्युतं तारुण्यादि तद्वीर्यम् । अगदोऽञ्जनादिरौषधम् ॥ 3-234-9 भगदैवतमिति झ. पाठः । भगदैवत सौभाग्यवर्धकं सौरव्रतादिकम् । वशानुग इच्छानुसारी ॥ 3-234-11 हे सत्ये अनुकीर्तनमुत्तरम् ॥ 3-234-17 जलोदरः उदररोगः । श्वित्रिणः कुष्ठवन्तः ॥ 3-234-18 उपसृजन्ति दोषैर्योजयन्ति ॥ 3-234-21 प्रणयं ईर्ष्याम् । आत्मानं चित्तम् । आत्मनि स्वस्मिन् । निरभिमाना दर्पहीना ॥ 3-234-22 इङ्गितं अभिप्रायः अध्यासितः क्षिप्तो यस्मिन् कटाक्षो तस्मात् इङ्गिताध्यासितात् ॥ 3-234-23 चक्षुर्हणः दृष्ट्वैव रिपून् घ्नन्ति तादृशान् । सेवे शत्रुहणान्पार्थानिति क. ट. ध. पाठः ॥ 3-234-24 अभिरूपः सुन्दरः ॥ 3-234-28 अतिरस्कृतसंभाषा तिरस्कारशून्यवचना ॥ 3-234-29 अनर्म परिहासहीनम् । हसितं हासः । स्थानं स्थितिम् । अवस्करे तिरस्करोमि । किरतेरिदं रूपम् । निष्कुटेषु गृहारामेषु ॥ 3-234-32 सुमनोवर्णकापेता पुष्पैरनुलेपनैश्च वर्जिता ॥ 3-234-36 मानः पूजा । सत्कार आदरः ॥ 3-234-40 नातिशये नातिक्रमामि । न परिवदे न निन्दामि ॥ 3-234-41 अवधानेन अप्रमादेन । मह्यं मम ॥ 3-234-47 अग्रहारेण वैश्वदेवान्ते प्रथमदेयेनान्नेव ॥ 3-234-52 अनुयात्रं स्वैरयात्रायामपि परिवारभूतम् ॥ 3-234-54 वेदवेद्मि ॥ 3-234-60 संवननं वशीकरणम् ॥ 3-234-63 अभिपन्ना प्रार्थयाना ॥