अध्यायः 019

प्रद्युम्नपराजितस्य साल्वस्य रणादपयानम् ॥ 1 ॥

वासुदेव उवाच ।
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततो मृधे ।
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥
न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् ।
युद्धज्ञोस्मि च वृष्णीनां नात्र किंचिदतोऽन्यथा ॥
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥
त्वं हि साल्वप्रयुक्तेन शरेणाभिहतो भृशम् ।
कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥
सत्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया ।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां साल्वस्य महतीं चमूम् ॥
वासुदेव उवाच ।
एवमुक्त्वा ततो वीरो हयान्संचोद्य संगरे ।
रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत्तदा ॥
मण्डलानि विचित्राणि यमकानीतराणि च ।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् ।
उह्यमाना इव तदा नास्पृशंश्चरणैर्महीम् ॥
सोपसव्यां चमूं तस्य साल्वस्य भरतर्षभ ।
चकार नातियत्नेन तदद्भुतमिवाभवत् ॥
अमृष्यमाणोपसव्यं साल्वः समितिदारुणः ।
यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत् ॥
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययावपसव्यतः ॥
ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।
मुमोच तनये वीर मम रुक्मिणिनन्दने ॥
तानप्राप्ताञ्शितैर्ब्राणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवं ॥
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन च सौभराट् ।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम् ।
ब्रह्मास्त्रेणान्तरा च्छित्त्वामुमोचान्यन्पतस्त्रिणः ॥
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।
शिरस्युरसि वक्रे च स मुमोह पपात च ॥
तस्मिन्निपतिते क्षुद्रे साल्वे बाणप्रपीडिते ।
रौक्मिणेयोऽपरं बाणं संदधे शत्रतापनः ॥
तमर्चितं सर्वदाशार्हपूगै- राशीर्भिरर्कज्वलनप्रकाशम् ।
दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् ॥
ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः ।
नारदं प्रेषयामासु- श्वसनं च मनोजवम् ॥
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् ।
नैव वध्यस्त्वया वीर साल्वराजः कथंचन ॥
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।
एतस्य च शरस्याजौ नावध्योस्ति पुमान्क्वचित् ॥
मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।
कृष्णः संकल्पितो धात्रा तन्मिथ्या न भवेदिति ॥
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।
संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥
तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः ।
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥
स द्वारकां परित्यज्य साल्वो वृष्णिभिरार्दितः । सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि विंशोऽध्यायः ॥ 20 ॥

3-19-8 यमकानि सदृशानि । इतराणि विसदृशानि ॥ 3-19-10 दह्यमाना इवेति ख. झ. पाठः ॥