अध्यायः 235
द्रौपद्या सत्यभामांप्रति पतिवशीकरणोपायोपदेशव्याजेन
पतिव्रताधर्मकथनम् ॥ 1 ॥
इमं तु ते मार्गमपेतदोषं
वक्ष्यामि चित्तग्रहणाय भर्तुः ।
अस्मिन्यथावत्सखि वर्तमाना
भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥
नैतादृशं दैवतमस्ति किंचि-
त्सर्वेषुलोकेषु सदेवकेषु ।
यथा पतिस्तस्य तु सर्वकामा
लभ्याः प्रसादे कुपितश् हन्यात् ॥
तस्मादपत्यं विविधाश् भोगाः
शय्यासनान्यद्भुतदर्शनानि ।
वस्त्राणि माल्यानि तथैव गन्धाः
स्वर्गश्चलोको विपुला च कीर्तिः ॥
सुखं सुखनेह न जातु लभ्यं
दुःखेन साध्वी लभते सुखानि ।
सा कृष्णमाराधय सौहृदेन
प्रेम्णा च नित्यं प्रतिकर्मणा च ॥
स्नानासनैश्चारुभिरग्रमाल्यै-
र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः ।
अस्याः प्रियोस्मीति यथा विदित्वा
त्वामेव संश्लिष्यति सर्वभावैः ॥
श्रुत्वा स्वरं द्वारगतस् भर्तुः
प्रत्युत्थिता तिष्ठ गृहस्य मध्ये ।
दृष्ट्वा प्रविष्टं त्वरिताऽसनेन
पाद्येन चैनं प्रतिपूजयस्व ॥
संप्रेषितायामथ चैव दास्या-
मुत्थाय सर्वं स्वयमेव कार्यम् ।
जानातु कृष्णस्तव भावमेतं
सर्वात्मना मां भजतीति सत्ये ॥
त्वत्संनिधौ यत्कथयेत्पतिस्ते
यद्यप्यगुह्यं परिरक्षितव्यम् ।
काचित्सपत्नी तव वासुदेवं
प्रत्यादिशेत्तेन भवेद्विरागः ॥
प्रियांश्च रम्यांश्च हितांश् भर्तु-
स्तान्भोजयेथा रविविधैरुपायैः ।
द्वेष्यैरुपेक्ष्यैरहितैश् तस्य
भिद्स्वनित्यं कुहकोद्धतैश्च ॥
मदं प्रमादं पुरुषेषु हित्वा
संयच्छ मानं प्रतिगृह् वाचम् ।
प्रद्युम्नसाम्बावपि ते कुमारौ
नोपासितव्यौ रहिते कदाचित् ॥
महाकुलीनाभिरपापिकाभिः
स्त्रीभिः सतीभिस्तव सख्यमस्तु ।
चण्डाश् शौण्डाश्च महाशनाश्च
चोराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥
एतद्यशस्यं भगवेतनं च
स्वार्थं तदा शत्रुनिबर्हणं च ।
महार्हमाल्याभरणाङ्गरागा
भर्तारमाराधय पुण्यगन्धैः ॥
इति श्रीमनमहाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि
पञ्चत्रिंशततमोऽध्यायः ॥ 235 ॥
3-235-1 आच्छेत्स्यसि बलाद्धरिष्यसि । कामिनीभ्यः सपत्नीभ्यः ।
भर्तारमाकर्षसीति थ. पाठः ॥ 3-235-4 प्रतिकर्मणा कायक्लेशेन ॥ 3-235-5
संश्लिष्यति तद्विधत्स्वेति झ. पाठः ॥ 3-235-8 न भवेद्विकार इतिट. पाठः ॥ 3-235-10 तप्रमादं पुरुषेषु कृत्वेति ध.पाठः । नैवं प्रमाणं कुहकेषु कुर्या इति
थ.पाठः । रहिते विजने ॥ 3-235-11 चण्डाः क्रूराः । शौण्डाः पराभिभवसमर्थाः ।
महाशनाः बहुभुजः । दुष्टाः द्वेषाद्याक्रान्ताः । स्त्रियो वर्ज्या इति शेषः ॥ 3-235-12 भगदैवतमिति झ. पाठः । भगदैवतं भाग्यकरम् ॥