अध्यायः 240
दुर्योधनेन घोषयात्राव्याजेनानुजादिभिः सहद्वैतवनंप्रतिरामनम् ॥ 1 ॥
वैसंपायन उवाच ।
धृतराष्ट्रं ततः सर्वेददृशुर्जनमेजय ।
दृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत ॥
ततस्तैर्विहितः पूर्वं संगवो नाम वल्लवः ।
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥
अनन्तरं च राधेयः शकुनिश्च विशांपते ।
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥
रमणीयेषु देशेषु घोषाः संप्रति कौरव ।
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम् ॥
मृगया चोचिता राजन्नस्मिन्काले सुतस्यते ।
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥
धृतराष्ट्र उवाच ।
मृगया शोभना तात गवां हि समवेक्षणम् ।
विस्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे ॥
ते तु तत्रनरव्याघ्राः समीप इति नः श्रुतम् ।
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥
छद्मना निर्जितास्ते तु कर्शिताश्च महावने ।
तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥
धर्मराजो न संक्रुद्ध्येद्भीमसेनस्त्वमर्षणः ।
यज्ञसेनस् दुहिता तेज एवतु केवलम् ॥
यूयंचाप्यपराध्येयुर्दर्पमोहसमन्विताः ।
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥
अथवा सायुधावीरा मन्युनाऽभिपरिप्लुताः ।
सहिता बद्धनिस्त्रिशा दहेयुः शस्त्रतेजसा ॥
अथ यूयं बहुत्वात्तान्नारभध्वं कथंचन ।
अनार्यं परमं तत्स्यादशक्यं तच्च वै मतम् ॥
उषितो हि महाबाहुरिन्द्रलोके धनंजयः ।
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनं ॥
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा ।
किं पुनः सकृतास्त्रोऽद्य न हन्याद्वो महारथः ॥
अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ ।
उद्विग्रवासा विस्रब्धा दुःखं तत्रगमिष्यथ ॥
अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे ।
तदबुद्धिकृतंकर्म दोषमुत्पादयेच्च वः ॥
तस्मादन्ये नरा यान्तु स्मारणायाप्तकारिणः ।
न स्वयं तत्रगमनं रोचये तव भारत ॥
शकुनिरुवाच ।
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि ।
तेन द्वादशवर्षाणि वस्तव्यानीति भारत ॥
अनुवृत्ताश्च रतं सर्वे पाण्डवा धर्मचारिणः ।
युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति ॥
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् ।
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्सनम् ॥
न चानार्यसमाचारः कश्चित्तत्र भविष्यति ।
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥
वैशंपायन उवाच ।
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा ।
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥
दुःशासनेन च तथा सौबलेन च धीमता ।
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः ।
पौराश्चानुययुः सर्वेसहदारा वनं च तत् ॥
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च ।
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥
शकटापणवेशाश्च वणिजो वन्दिनस्तथा ।
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः ।
प्रावृषीव महावायोरुत्थितस्य विशांपते ॥
गव्यूतिमात्रेन्यवसद्राजा दुर्योधनस्तदा ।
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥
3-240-2 समङ्गो नाम इति झ. पाठः ॥ 3-240-4 स्मारणे स्मरणहेतौ कर्मणि गवां संख्यापूर्वकं वयोवर्णजातिनाम्नां लेखने ॥ 3-240-7 ते पाण्डवाः ॥ 3-240-9 तेजोऽग्निरेव ॥ 3-240-27 वेशो वेश्याजनाश्रयः ॥ 3-240-29 गव्यूतिः क्रोशद्वयम् ॥