अध्यायः 241

द्वैतवने सरोऽभितः क्रीडास्थाननिर्माणायाज्ञसानां दुर्योधनभृत्यानां पूर्वमेव तत्रागतैर्गन्धर्वैः प्रतिवारणम् ॥ 1 ॥ भृत्यैर्गन्धर्वकृतनिवारणं निवेदितेन दुर्योधनेन तेषामुत्सारणाय सेनाप्रेषणम् ॥ 2 ॥ गन्धर्वैः परुषभाषणैर्भोपितैर्भटैर्दुर्योधनं प्रति तन्निवेदनम् ॥ 3 ॥

वैशंपायन उवाच ।
अथ दुर्योधनो राजा तत्रतत्र वने वसन् ।
जगाम घोषानभितस्तत्र चक्रे निवेशनम् ॥
रमणीये समाज्ञाते सोदके समहीरुहे ।
देशे सर्वगुणोपेते चक्रुरावसथान्नराः ॥
तथैव तत्समीपस्थान्पृथगावसथान्बहून् ।
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥
पश्यन्तस्ते तदा गावः शतशोऽथ सहस्रशः ।
अङ्कर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ॥
अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि ।
बालवत्साश्च यां गावः कालयामास ता अपि ॥
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् ।
वृतो गोपालकैः प्रीतो व्याहरत्कुरुनन्दनः ॥
स च पौरजनः सर्वः सर्वः सैनिकाश्च सहस्रशः ।
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथाऽमराः ॥
ततोऽध्वगमनाच्छ्रान्तं कुशला नृत्यवादितैः ।
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः ॥
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु ।
तेभ्यो यथार्हमन्नानि पानानि विविधानि च ॥
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् ।
गवयर्क्षवराहांश्च समन्तात्पर्यवारयन् ॥
स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून्वने ।
रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥
गोरसानुपयुञ्जान उपभोगांशच् भारत ।
पश्यन्स रमणीयानि वनान्युपवनानि च ॥
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च ।
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ॥
मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम् ।
सप्तच्छदसमाकीर्णं पुन्नागवकुलैर्युतम् ॥
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ।
यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः ॥
ईजे राजर्षियज्ञेन साद्यस्केन विशांपते ।
दिव्येन विधिना चैव वन्येन कुरुसत्तम ॥
`विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः' । कृत्वा निवेशमभितः सरसस्तस्य कौरव ।
द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ॥
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः ।
आक्रीडावसथाञ्शीघ्रं कुरुध्वं सरसोऽभितः ॥
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः ।
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥
सेनाग्र्यं धार्तराष्ट्रस् प्राप्तं द्वैतवनं सरः ॥
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् । तत्र गन्धऱ्वराजो वै पूर्वमेव विशांपते ।
कुबेरभवनाद्राजन्नाजगाम गणावृतः ॥
गणैरप्सरसां चैव त्रिदशानां तथाऽऽत्मजैः ।
विहारशीलैः क्रीडार्थं तेन तत्संवृतं सरः ॥
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः ।
प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् ।
प्रेषयामास कौरव्य उत्सारयत तानिति ॥
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः ।
सरो द्वैनवनं गत्वा गन्धर्वानिदमब्रुवन् ॥
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली ।
चिक्रीडिषुरिहायाति तदर्थमपसर्पत ॥
एवमुक्तास्तु गन्धर्वाः रप्रहसन्तो विशांमपते ।
प्रत्यब्रुवंस्तान्पुरुषानिदं हि परुषं वचः ॥
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः ।
योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः ।
ये तस् वचनादेवमस्मान्ब्रूथ विचेतसः ॥
गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः ।
न चेदद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः । संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥

3-241-4 स ददर्श तदा गावः इति झ. पाठः । अङ्कैश्चिह्नैः । लक्षैः संख्यानैः । लक्षा नपुंसि संख्यायामिति मेदिनी ॥ 3-241-5 जज्ञे ज्ञातवान् । उपसृतान् दमनार्हान् वत्सतरान्समीपागतान्वा कालयामास संख्यातवान् ॥ 3-241-6 त्रिहायनांस्त्रिवर्षान्वृषान् । व्याहरत् विजहार ॥ 3-241-7 यथोपजोषं यथारुचि ॥ 3-241-16 साद्यस्केन एकाहसाध्येने ॥ 3-241-22 आत्मजैर्जयन्तादिभिः सहेति शेषः ॥