अध्यायः 244

भीमेन युधिष्ठिरंप्रति दुर्योधनकृतापनयानुस्मनारणपूर्वकं तद्विमोचनस्यानौचित्यप्रतिपादने युधिष्ठिरेण पुनस्तंप्रति तच्चोदनायामर्जुनेन तत्प्रतिज्ञानम् ॥ 1 ॥

यधिष्ठिर उवाच ।
अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः ।
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर ।
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् ।
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रधर्षणम् ॥
जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान् ।
स एवं परिभूयास्मानकार्षीदिदमप्रियम् ॥
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे ।
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥
श्चरणं च प्रपन्नानां त्राणार्थं च कुलस्य च ।
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम् ॥
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः ।
मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम् ॥
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः ।
धृतराष्ट्रस्य पुत्राणां विमला काञ्चनध्वजाः ॥
सस्वनानधिरोहध्वं नित्यसज्जानिमान्रथान् ।
इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान् ॥
एतानास्थाय वै यत्ता गन्धर्वान्योद्धुमाहवे ।
सुयोधनस्य मोक्षाय प्रयतध्वमतनद्रिताः ॥
`परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् । परस्परविरोधे तु वयं पञ्चैव ते शतम् ॥'
य एव कश्चिद्राजन्यः शरणार्थमिहागतम् ।
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥
`एवमुक्तस्तु कौन्तेयः पुनर्वाक्यमभाषत ।
कोपसंरक्तनयनः पूर्ववैरमनुस्मरन् ॥
पुरा जतुगृहेऽनेन दग्धुमस्मान्युधिष्ठिर ।
दुर्बुद्धिर्हि कृता वीर तदा दैवेन रक्षिताः ॥
कालकूटविषं तीक्ष्णं भोजने मम भारत ।
उप्त्वा गङ्गां लतापाशैर्वैद्ध्वा च प्राक्षिपत्प्रभो ॥
रसातलं च संप्राप्य तदा वासुकिमञ्जसा ।
तत्र दृष्ट्वा तु राजेन्द्रपुनः प्राप्तो महीतलम् ॥
द्यूतकालेऽपिकौन्तेय वृजिनानि कृतनि वै । द्रौपद्याश्च पराभर्शः केशग्रहणमेव च ।
वस्त्रापहरणं चैव सभामध्ये कृतानि वै ॥
राज्यं चाच्छिद्य राजेन्द्र उक्तवान्परुषाणि नः ।
पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः ॥
अस्माबिरेवकर्तव्यं धार्तराष्ट्रस्य निग्रहम् । अन्येन तु कृतं तद्वै मैत्र्यमस्माकमिच्छता ।
उपकारी तु गन्धर्वो मा राजन्विमना भव ॥
वैशंपायन उवाच ।
एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः ।
विललाप सुदुःखार्तो नीयमानः सुयोधनः ॥
युधिष्ठिर महाबाहो सर्वधर्मभृतांवर ।
सपुत्रान्सहदारांश्च गन्धर्वेण हृतान्बलात् ॥
पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर' सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात् ।
रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः ॥
भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम् ।
दुश्शासनं दुर्विषहं दुर्मुखं दुर्जयं तथा ॥
बद्ध्वा हरन्ति गन्धर्वा अस्मान्दारांश्च सर्वशः ।
अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः ॥
यमौ मामनुधावेतां रक्षार्थं मम सायुधौ । कुरुवंशस्य सुमहदयशः प्राप्तमीदृशम् ।
व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः ॥
एवं विलपमानस्य कौरवस्यार्तया गिरा ।
श्रुत्वा विलापं संभ्रान्तो घृणयाऽभिपरिप्लुतः ॥
युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत् ।
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः' ॥
क इवार्यो दयेत्प्राणानभिधावेति चोदितः ।
प्राञ्जलं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः ।
शत्रोश्च मोक्षणं क्लेशास्त्रीणि चैकं च तत्समम् ॥
न ह्यस्त्यधिकमेतस्माद्यदापन्नः सुयोधनः ।
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते ॥
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर ।
विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा ॥
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् ।
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ ।
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् ।
सर्वोपायैर्पिमोच्यास्ते निगृह्य परिपन्थिनः ॥
एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर । वैताने कर्मणि तते वर्तमाने च भारत ।
`वरप्रदानं सुमहद्याचकस्य प्रकीर्तितम्' ॥
वैशंपायन उवाच ।
अजातसत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः ।
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥
अर्जुन उवाच ।
यदि ककसाम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् ।
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ॥
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः । कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥

3-244-28 क इवार्यो नयेत्प्राणान् इति थ. पाठः । क इहार्यो भवेत्राणं इति झ. पाठः । अभिधाव याहीति चोदित आर्यः प्राणान् दयेत् । स्वप्राणेषु दयां कुर्यादित्यर्थः ॥