अध्यायः 245

भीमादीनां चतुर्णां चित्रसेनादिभिर्गन्धर्वैर्युद्धम् ॥ 1 ॥

वैशंपायन उवाच ।
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः ।
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ॥
अभेद्यानि ततः सर्वे समनह्यन्त भारत । जाम्बूनदविचित्राणि कवचानि महारथाः ।
आयुधानि च दिव्यानि विविधानि समादधुः ॥
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः ।
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इवपावकाः ॥
तान्रथान्साधुसंपन्नान्संयुक्ताञ्जवनैर्हयैः ।
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः ।
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥
जितकाशिनश्च स्वचरास्त्वरिताश्च महारथाः ।
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः ।
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥
तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान् ।
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः ।
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत ॥
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः ।
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥
ततस्तान्युधि दुर्धर्षान्सव्यसाची परंतपः ।
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् ।
परदाराभिमर्शश्च मानुषैश्च समागमः ॥
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् ।
दारांश्चैषां प्रमुञ्चध्वं धर्मराजस्य शासनात् ॥
त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना ।
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥
एकस्यैव वयं तात कुर्याम वचनं भुवि ।
यस्य शासनमाज्ञाय चरामो विगतज्वराः ॥
तेनैकेन रकयथादिष्टं तथा वर्ताम भारत ।
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥
एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनंजयः ।
गन्धर्वान्पुनरेवैतान्वचनं प्रत्यभाषत ॥
यदि साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान् ।
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ॥
एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः ।
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥
तथैव शरवर्षेण गन्धर्वास्ते बलोत्काटाः ।
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् । बभूव भीमवेगानां च भात ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥

3-245-3 दंशिताः सन्नद्धाः ॥ 3-245-10 श्रेयः कल्याणम् । प्रतिपादयितुं प्रापयितुम् ॥ 3-245-19 स्वचरान् गगनगमनान् । खचरान् गन्धर्वान् ॥