अध्यायः 246

अर्जुनेन मायाशक्त्याऽन्तर्धानेन युध्यते चित्रसेनायास्रप्रयोगे सति तेनार्जुनप्रति स्वस्य सखित्वकथनम् ॥ 1 ॥ ततोऽर्जुनेनास्रोपसंहारे भीमादीनां युद्धोपरमपूर्वकं तेन सह संलापः ॥ 2 ॥

वैशंपायन उवाच ।
ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः ।
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥
चतुरः पाण्डवान्वीरान्गन्धर्वाश्च सहस्रशः ।
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥
यथा कर्णस्य च रथो धार्तराष्ट्रस् चोभयोः ।
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रितरे ॥
तान्समापततो राजन्गधर्वाञ्छतशो रणे ।
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥
ते कीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥
अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा ।
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे ॥
सहस्राणां सहस्राणि प्राहिणोद्यमसादनम् ।
अजेयानर्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥
तथा भीमो महेष्वासः संयुगे बलिनांवरः ।
गन्धर्वाञ्शतशो राजञ्चघान निशितैः शरैः ॥
माद्रीपुत्रावपि तथा युध्मानौ बलोत्कटौ ।
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥
तेवध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः ।
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥
सतानुत्पतितानदृष्ट्वा कुन्तीपुत्रो धनंजयः ।
महता शरजालेन समन्तात्पर्यवारयत् ॥
ते ब्रद्धाः शरजालेन शकुन्ता इव पञ्जरे ववर्पुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥
गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित् ।
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥
तेषां तु शरवर्षाणि सव्यसाची परंतपः ।
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः ।
आग्नेयं चापि सौम्यं च ससर्ज कुरुननदनः ॥
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।
दैतेया इव शक्रेण विषादमगमन्परम् ॥
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण भारत ।
चित्रसेनो गदां गृह्य सव्यसाचिनमनाद्रवत् ॥
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवं ॥
अस्त्राणइ तस्य दिव्यानि संप्रयुक्तानि सर्वशः ।
दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः ॥
स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना ।
गन्धर्वराजो बलवान्माययाऽन्तर्हितस्तदा ॥
अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः ।
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।
शब्दवेषं समाश्रित्य बहुरूपो धनंजयः ॥
रस वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।
ततोऽस्य दर्शयामास तदाऽऽत्मानं प्रियः सखा ॥
चित्रसेनस्तथोवाच सखायं युधि विद्धि माम् ।
चित्रसेनमथालक्ष्य सखायमिति विस्मितः ॥
संजहारास्त्रमथं तत्प्रसृष्टं पाण्डवर्षभः ॥
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् ।
संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥
चित्रसेनश्च भीमश्च सव्यसाची यमावपि । पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि षट््चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥

3-246-3 तथा तेषां चतुर्णामपि रथान् छन्नान् प्रचक्रिरे गन्धर्वाः ॥ 3-246-20 गृह्य गृहीत्वा ॥ 3-246-22 संवृत्य आच्याद्य । विद्यया अदर्शनशक्त्या ॥