अध्यायः 249

दुर्योधनेन कर्णंप्रति युद्धे सानुजस्य स्वस्य गन्धर्वैर्वन्धनस्य युधिष्ठिरचोदनया मीमादिमिर्गन्धर्वाणां रणे पराजयस्य च कथनम् ॥ 1 ॥

दुर्योधन उवाच ।
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः ।
जानासि त्वं जिताञ्शत्रून्गन्धर्वां स्तेजसा मया ॥
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम ।
मया सह महाबाहो कृतश्चोभयतः क्षयः ॥
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः ।
तदा नो न समं युद्धमभवत्खेचरैः सह ॥
पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च । सभृत्यामात्यपुत्राश्च सदारबलवाहनाः ।
उच्चैराकाशमार्गेण ह्रियमाणाः सुदुःखिताः ॥
अथ नः सैनिकाः केचिदमात्याश्च महारथाः ।
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः ।
सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः ॥
तं मोक्षयत भद्रं वः सहदारं नराधिपम् । परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः ।
`इत्यब्रुवन्रणआन्मुक्ता धर्मराजमुपागताः' ॥
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा ।
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः ।
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥
यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि ।
`आकाशचारिणो वीरा नदन्तो जलदा इव' ॥
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ।
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥
अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम् ।
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥
ततः समन्तात्पश्यामः शरजालेन वेष्टितम् ।
अमानुषाणि चास्त्राणि प्रयुञ्जानं घनंजयम् ॥
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः ।
धनंजयसखाऽऽत्मानं दर्शयामास वै तदा ॥
चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम् ।
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥
ते समेत्य तथाऽन्योन्यं सन्नाहान्विप्रमुच्य च ।
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ॥
`परस्परं समागम्य प्रीत्या परमया युतौ' । अपूजयेतामन्योन्यं चित्रसेनधनंजयौ ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥

3-249-1 नाभ्यसूयामि दोषवदिति न मन्ये ॥