अध्यायः 250

दुर्योधनेन कर्णंप्रतिस्वबन्धनविषये चित्रसेनार्जुनसंवादप्रकारकथनपूर्वकं युधिष्ठिरात्स्वस्य यन्धमोचनकथनम् ॥ 1 ॥ तथा प्रायोपवेशने निजाध्वसायकथनपूर्वकं दुःशासनंप्रति राज्यपालनविधानम् ॥ 2 ॥ कर्णेन दुर्योधनंप्रति प्रायोपवेशनान्निवर्तनाय सान्त्वोक्तिः ॥ 3 ॥

दुर्योधन उवाच ।
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा ।
इदं वचनमक्लीवमब्रवीत्परवीरहा ॥
भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम ।
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु ॥
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना ।
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ॥
`स्थितोराज्येच्युतान्स्थानाच्छ्रियाहीनांश्रियावृतः' द्रष्टास्मि निःसुखान्वीरान्सदारान्पाण्डवानिति ॥
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा ।
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः ॥
युधिष्ठिरमथागम् गन्धर्वाः सह पाण्डवैः ।
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः ।
युधिष्ठिरस्योपहृतः किंनु दुःखमतः परम् ॥
ये मे निराकृता नित्यं रिपुर्येषामहं सदा ।
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम् ॥
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे ।
श्रेयस्तद्भविता मह्यं नैवंभूतस्य जीवितम् ॥
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् ।
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः ॥
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः । इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ।
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति ॥
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये ।
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥
न ह्यहं संप्रयास्यामि पुरं शत्रुनिराकृतः ।
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥
`कामं रणशिरस्यद्य शत्रुभिर्वै विमानितः' । स सुहृच्छोकदो जातः शत्रूणां हर्वर्धनः ।
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥
भीष्मद्रोणौ कृपद्रौणी विदुरः संजयस्तथा ।
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसंमताः ॥
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः ।
किं मां वक्ष्यंति किं चापि प्रतिवक्ष्यामि तानहं ॥
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि ।
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च ।
तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः ॥
अहो वत यथेदं मे कष्टं दुश्चरितं कृतम् ।
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोस्मि संशयम् ॥
तस्मात्प्रायमुपासिष्ये न हिशक्ष्यामि जीवितुम् ।
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः ।
पाण्डवैर्विक्रमाढ्यैशच् सावमानमवेक्षितः ॥
वैशंपायन उवाच ।
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् ।
दुःशासन निबोधेदं वचनं मम भारत ॥
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव ।
प्रशाधि पृथिवीं स्फीतांकर्णसौबलपालिताम् ॥
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा ।
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम् ॥
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः ।
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा ।
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् ।
कण्ठे चैनं परिष्वज्यगम्यतामित्युवाच ह ॥
तस्य तद्वचनं श्रुत्वा दीनो दुशासनोऽब्रवीत् ।
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ॥
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ।
कप्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ॥
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ।
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ॥
विदीर्यत्सकला भूमिर्द्यौश्चापि शकलीभवेत् ।
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च हिमं त्यजेत् ।
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥
न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम् ।
पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह ॥
`शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः' त्वमेव नःकुलेराजा भविष्यसि शतं समाः ॥
एवमुक्त्वा स राजानं सुश्वरं प्ररुरोद ह ।
पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ ।
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव ।
न शोकः शोचमानस्य विनिवर्तेत कर्हिचित् ॥
यदा च शोचतः शोकोव्यसनं नापकर्षति ।
सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः ॥
धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ।
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ॥
नित्यमेव प्रियं कार्यं राज्ञो विपयवासिभिः ।
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवत्स्वयम् ।
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ॥
`तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप' । उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥

3-250-9 एवंभूतस्य जीवितं न श्रेय इति संबन्धः ॥ 3-250-16 श्रेणिमुख्याः शिल्पिसंघातमुख्याः प्रकृतय इत्यर्थः ॥ 3-250-24 विस्रब्वं सविश्वासं यथा स्यात्तथा ॥ 3-250-27 कर्णं चैनं परिष्वज्येति ध. पाठः ॥ 3-250-32 हिमवांश्च परिप्लवेत् इति थ. पाठः । परिव्रजेत् इति झ. पाठः ॥ 3-250-38 यदि शोकेन व्यसनं नश्येत्तर्हि स कर्तव्यः नतु तत्तथास्ति अतः शोको न कर्तव्य इत्यर्थः ॥