अध्यायः 251

कर्णेन बहुधा प्रार्थनेपि दुर्योधनेन प्रायोपवेशाध्यवसायादपरावर्तनम् ॥ 1 ॥

कर्ण उवाच ।
राजन्नद्यावगच्छामि तवैव लघुसत्वताम् ।
`अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम्' ॥
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि ।
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः ।
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥
प्रायः प्रधानाः पुरुषाः क्षोभयित्वाऽरिवाहिनीम् ।
निगृह्यन्ते चयुद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ॥
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः ।
तैः संगम्य नृपार्थाय यतितव्यं यथातथम् ॥
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः ।
यदृच्छया मोक्षितोऽसि कतत्रका परिदेवना ॥
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तमम् ।
स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः ॥
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः ।
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे ।
सत्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ॥
`तदलं ते महाबाहो विषादं कर्तुमीदृशम्' ।
उत्तिष्ठ रराजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥
अवश्यमेव नृपते राज्ञो विषयवासिभिः ।
प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि ।
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभः ।
प्रायोपविष्टस्तु तथा राज्ञां हास्यो भविष्यसि ॥
वैशंबायन उवाच ।
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥

3-251-8 भवतस्ते सहाया वै इति झ. पाठः ॥