अध्यायः 257

दुर्योधनेन यज्ञसमापनानन्तरं सतहुमानं प्राहुणिकविप्रनृपेप्रषणपूर्वकं निजनगरप्रवेशनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततस्तु शिल्पिनः सर्वं कृतमूर्चुर्नराधिपम् ।
विदुरश्च महाप्राज्ञो धृतराष्ट्रे न्यवेदयत् ॥
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत ।
सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम् ॥
एवच्छ्रुत्वा नृपश्रेष्ठो धृतराष्ट्रो विशंपते ।
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥
ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः ।
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥
प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः ।
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥
निमन्त्रणार्थं दूर्तांश्च प्रेषयामास शीघ्रगान् ।
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ॥
ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः ।
तत्र कचित्प्रयान्तं तु दूतं दुःशासनोऽब्रवीत् ॥
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ।
निमन्त्रय यथान्यायं विप्रांस्त स्मिन्वने तदा ॥
स गत्वा पाण्डवान्सर्वानुवाचाभिप्रणम्य च ।
दुर्योधनो महाराज यजते नृपसत्तमः ॥
स्ववीर्यार्जितमर्थौघमवाप्य कुरुसत्तमः ।
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥
अहं तु प्रेषितो राजन्कौरवेण महात्मना । आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ।
मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् । अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ।
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥
वयमप्युपयास्यामो न त्विदानीं कथंचन ।
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् ।
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति ।
वर्षात्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः ।
आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥
शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम् ।
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः ।
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति ॥
ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम् ।
मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः ॥
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः ।
हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः ।
तुष्येत्तु यज्ञसदने तथा नीतिर्विधीयताम् ॥
विदुरस्तु तदाज्ञाय सर्ववर्णानरिंदम ।
यथा प्रमाणतो विद्वान्पूजयामास धर्मवित् ॥
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः ।
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् । सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ।
विसर्जयामास नपान्ब्राह्मणांश्च सहस्रशः ॥
विसृज्यच नृपान्सर्वान्भ्रातृभिः परिवारितः । विवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥

3-257-25 कर्णसौबलैः सौबलाद्यैः ॥