अध्यायः 259

पाण्डवनिहतभूयिष्ठैर्मृगैर्युधिष्ठिरंप्रति स्वप्ने स्थानान्तरगमनन स्वकुशलशेषीकरणप्रार्थना ॥ 1 ॥ युधिष्ठिरेण भ्रातृषु स्वीयस्वप्नदर्शनकथनपूर्वकं पुनः काम्यकवनंप्रति गमनम् ॥ 2 ॥

जनमेजय उवाच ।
दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः ।
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ॥
वैशंपायन उवाच ।
ततः शयानं कौन्तेयं रात्रौ द्वैतवन मृगाः ।
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ॥
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् ।
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ॥
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना ।
प्रत्यब्रुवन्मृगास्तत्रहतशेषा युधिष्ठिरम् ॥
वयं मृगा द्वैतवने हतशिष्टास्तु भारत ।
नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः ।
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ॥
बीजभूता वयं केचिदवशिष्टा महामते ।
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ॥
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् ।
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ॥
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः ।
यथा भवन्तो ब्रुवते करिष्यामि च तत्तथा ॥
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः ।
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ॥
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः ।
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ॥
ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम् ।
साष्टमासं हि नो वर्षं यदेनानुपयुंक्ष्महे ॥
पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम् ।
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि ॥
वैशंपायन उवाच ।
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः ॥
ब्राह्मणैः सहिता राजन्ये च तत्रसहोषिताः ।
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ॥
ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः ।
ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम् ॥
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा । तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि मृगस्वप्नोद्भवपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥

3-259-5 वासस्य पर्ययः वैपरीत्य नात्रवस्तव्यमित्यर्थः ॥