अध्यायः 263

कादाचन शिष्यायुतसहितेन दुर्वाससा दुर्योधनगृहंप्रति गमनम् ॥ 1 ॥ दुर्योधनन स्वपरिचर्यासंतुष्टं तप्रति ब्राह्मणादीनां द्रौपद्याश्च भोजनावसाने भोजनाय पाण्डवान्प्रति गमनप्रार्थना ॥ 2 ॥ दुर्वाससा तस्मै तद्वरदानपूर्वकं पाण्डवान्प्रति प्रस्थानम् ॥ 3 ॥

जनमेजय उवाच ।
वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु ।
रममाणएषु चित्राबिः कथाभिर्मुनिभिः सह ॥
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि । ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः ।
आरण्यानां मृगाणां च मांसैर्नानाविधैरपि ॥
धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः ।
कथं तेष्वन्ववर्तन्त पापाचारा महामुने ॥
दःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः ।
एतदाचक्ष्व भगवन्वैशंपायन पृच्छतः ॥
वैशंपायन उवाच ।
श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव ।
दुर्योधनो महाराज तेषु पापमरोचयत् ॥
तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः ।
नानोपायैरधं तेषु चिन्तयत्सु दुरात्मसु ॥
अभ्यागच्छत्स धर्मात्मा तपस्वी कसुमहायशाः ।
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः ॥
तमागतमभिप्रेक्ष्य मुनिं परमकोपनम् ।
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत् ॥
विधिवत्पूजयामास स्वयं किंकरवत्स्थितः ।
अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः ॥
तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः ।
दुर्योधनो महाराज शापात्तस्य विशङ्कितः ॥
क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप ।
इत्युक्त्वा गच्छति स्नातुं प्र्यागच्चति वै चिरात् ॥
न भोक्ष्याम्यद्यमे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम् ।
अकस्मादेत्य च ब्रूते भोजनयास्मांस्त्वरान्वितः ॥
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः ।
पूर्ववत्कारयित्वाऽन्नं न भुङ्क्ते गर्हयन्स्म सः ॥
वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः ।
विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः ॥
आहचैनं दुराधर्षो वरदोऽस्मीति भारत ॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ।
मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव ॥
वैशंपायन उवाच ।
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः ।
अमन्यत पुनर्जातमात्मानं स सुयोधनः ॥
प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः ।
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः ॥
अतिहर्षान्वितो राजन्वरमेनमयाचत ।
शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान् ॥
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः । वने वसति धर्मात्मा भ्रातृभिः परिवारितः ।
गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव ॥
यदा च राजपुत्री सा सुकुमारी यशस्विनी ।
भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी ॥
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा ।
तदा त्वं तत्रगच्छेथा यद्यनुग्राह्यता मयि ॥
तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम् ।
दुर्वासा अपिविप्रेन्द्रो यथागतमगात्ततः ॥
कृतार्थमपि चात्मानं तदा मेने सुयोधनः ।
करेण च करं गृह्य कर्णस्य मुदितो भृशम् ॥
कर्णोपि भ्रातृसहितमित्युवाच नृपं मुदा । दुष्ट्या कामः सुसंवृत्तोदिष्ट्या कौरव वर्धसे ।
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे ॥
दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः ।
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः ॥
वैशंपायु उवाच ।
इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः । हसन्तः प्रीतमनसो जग्मुः स्वंस्वं निकेतनम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ 263 ॥

* इतः परं दुर्वासउपाख्यानात्मकमध्यायद्वयं झ. पुस्तकएव दृश्यते । 3-263-6 अध दुःखम् ॥ 3-263-16 धर्म्ये धर्मादनपेतम् ॥