अध्यायः 264

दुर्वाससा दुर्योधनप्रार्थनासफलीकरणायाकाले पाण्डवान्प्रत्यन्नयाचनम् ॥ 1 ॥ तथा युधिष्ठिरानुमत्या शिष्यायुतेन सह स्नानाय नदींप्रति गमनम् ॥ 2 ॥ अत्रान्तरे द्रौपदीप्रार्थनया श्रीकृष्णेन तत्समीपागमनम् ॥ 3 ॥ तथा निवेदितदुर्वासोवृत्तान्तेन तेन स्वीयक्षुन्निवृत्तये द्रौपदीप्रत्यन्नयाचनम् ॥ 4 ॥ तयाऽन्नस्य शेषाभावे निवेदितेऽन्नस्यालीमानाय्य तत्कण्ठलग्नशाकपुलाकभक्षणएन सशिप्यस्य दुर्वाससस्तृप्तिजननम् ॥ 5 ॥ ततो भोजनाय भीमेनाह्वाने लजितस्य दुर्वाससो भर्याच्छिष्यैः सह पलायनम् ॥ 6 ॥

वैशंपायन उवाच ।
ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान् । भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन्वने मुनिः ।
अभ्यागच्छत्परिवृतः शिष्यैरयुतसंमितैः ॥
दृष्ट्वा यान्तं तमतिथिं स च राजा युधिष्ठिरः ।
जगामाभिमुखः श्रीमान्सह भ्रातृभिरच्युतः ॥
तस्मै बद्ध्वाञ्जलिं सम्यगुपवेश्य वरासने । विधिवत्पूजयित्वा तमातिथ्यन न्यमन्त्रयत् ।
आह्निकं भगवन्कृत्वा शीघ्रमेहीति चाब्रवीत् ॥
जगाम च मुनिः सोपि स्नातुं शिष्यैः सहानघः ।
भोजयेत्सहशिष्यं मां कथमित्यविचिन्तयन् ॥
न्यमज्जत्सलिले चापि मुनिसङ्घः समाहितः ॥
एतस्मिन्नन्तरे राजन्द्रौपदी योपितां वरा ।
चिन्तामवाप परमामन्नहेतोः पतिव्रता ॥
सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत ।
मनसा चिन्तयामास कृष्णं कंसनिषूदनम् ॥
कृष्णकृष्ण महाबाहो देवकीनन्दनाव्यय ।
वासुदेव जगन्नाथ प्रणतार्तिविनाशन ॥
विश्वात्मन्विश्वजनक विश्वहर्तः प्रभोऽव्यय । प्रपन्नपाल गोपाल प्रजापाल परात्पर ।
आकूतीनां च चित्तीनां प्रवर्तक नताऽस्मि ते ॥
वरेण्य वरदानन्त अगतीनां गतिप्रद ।
पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर ॥
सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता ।
पाहि मां कृपया देव शरणागतवत्सल ॥
नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण ।
पीताम्बरपरीधान लसत्कौस्तुभभूषण ॥
त्वमादिरन्तो भूतानां त्वमेव च परायणम् ।
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः ॥
त्वामेवाहुः परं बीजं निधानं सर्वसंपदाम् ।
त्वया नाथेन देवेश सर्वापद्म्यो भयं न हि ॥
दुःशासनादहं पूर्वं सभायां मोचिता यथा ।
तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि ॥
वैशंपायन उवाच ।
एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः ।
द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः ॥
पार्स्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः ।
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः ॥
ततस्तं द्रौपदी दृष्ट्वाप्रणम्य परया मुदा ।
अब्रवीद्वासुदेवाय मुनेरागमनादिकम् ॥
ततस्तामब्रवीत्कृष्णः क्षुधितोस्मि भृशातुरः ।
शीघ्रं भोजय मां कृष्णे पश्चात्सर्वं करिष्यसि ॥
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत् ।
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि ॥
भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते ।
ततः प्रोवाच भगवान्कृष्णां कमललोचनः ॥
कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि ।
शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय ॥
इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः ।
स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्यकेशवः ॥
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः ।
विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभूक् ॥
आकारय मुनीञ्शीघ्रं भोजनायेति चाब्रवीत् ।
भीमसेनं महाबाहुः कृष्णः क्लेशविनाशनः ॥
ततो जगाम त्वरितो भीमसेनो महायशाः । आकारितुं तु तान्सर्वान्भोजनार्थं नृपोत्तम ।
स्नातुं गतान्देवनद्यां दुर्वासःप्रभृतीन्मुनीन् ॥
ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम् । दृष्ट्वोद्गारान्सान्नरसांस्तृप्त्या परमया युताः ।
उत्तीर्य सलिलात्तस्माद्दृष्टवन्तः परस्परम् ॥
दुर्वाससमभिप्रेक्ष्यते सर्वे मुनयोऽब्रुवन् ।
राज्ञा हिकारयित्वाऽन्नं वयं स्नातुं समागताः ॥
आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम् ।
वृथा पाकः कृतोस्माभिस्तत्र किं करवामहे ॥
दुर्वासा उवाच ।
वृथा पाकेन राजर्षेरपराधः कृतो महान् ।
माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा ॥
स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः ।
बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात् ॥
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः ।
शूराश्चकृतविद्याश्च व्रतिनस्तपसि स्थिताः ॥
सदाचाररता नित्यं वासुदेवपरायणाः । क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः ।
तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत ॥
वैशंपायन उवाच ।
इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा ।
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश ॥
भीमसेनो देवनद्यामपश्यन्मुनिसत्तमान् ।
तीर्थे ष्वितस्ततस्तस्या विचचार गवेषयन् ॥
तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा ताश्चैव विद्रुतान् ।
युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत् ॥
ततस्ते पाण्डवाः सर्वे प्र्यागमनकाङ्क्षिणः ।
प्रतीक्षनतः कियत्कालं जितात्मानोऽवतस्थिरे ॥
निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति ।
कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात् ॥
इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः ।
उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः ॥
भवतामापदं ज्ञात्वा ऋषेः परमकोपनात् ।
द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः ॥
न भयं विद्यतेतस्मादृषेर्दुर्वाससोऽल्पकम् ।
तेजसा भवतां भीतः पूर्वमेव पलायितः ॥
धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित् ।
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः ॥
वैशंपायन उवाच ।
श्रुत्वेरितं केशवस्य बभूवुः स्वस्थामानसाः ।
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः ॥
त्वया नाथेन गोविन्द दुस्तरामापदं विभो ।
तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे ॥
स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम् ॥
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो । ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम् ।
इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया ॥
एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः । पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि चतुःषष्ट्यधिकद्विशततमोऽध्यायः ॥ 264 ॥

3-264-6 एतस्मिन्नन्तरे काले ॥ 3-264-9 आकूतीनां चित्तीनां चेति चेतोवृत्तिविशेषाणाम् ॥ 3-264-25 सहदेव महाबाहुरिति झ. पाठः ॥ 3-264-26 सहदेवो महायशा इति झ. पाठः ॥ 3-264-35 सहदेवो देवनद्यामिति झ. पाठः ॥ 3-264-47 अलीकान्यहितानि ॥