अध्यायः 268
					 कोटिकाश्याद्द्रौपदीतत्वंविदितवता जयद्रथेन द्रौपदीमेत्य
						स्वभार्यात्वयाचनाः ॥ 1 ॥ 
					
					
						तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत ।
						`कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम् ॥
					 
					
						यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत् ।
						कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ॥
					 
					
						यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः ।
						सीमन्तिनीनां सुख्यायां विनिवृत्तः कथं भवान् ॥
					 
					
						एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः ।
						प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ॥
					 
					
						दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् ।
						तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ॥
						कोटिक उवाच । 
					 
					
						एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी ।
						पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ॥
					 
					
						सर्वेषां चैव पार्थानां प्रिया बहुमता सती ।
						तया समेत्य सौवीर सौवीराभिमुखो व्रज ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति ।
						पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ॥
					 
					
						स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा ।
						आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ॥
					 
					
						कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः ।
						येषां कुशलकामासि तेऽपिकच्चिदनामयाः ॥
						द्रौपद्युवाच । 
					 
					
						अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा ।
							कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः ।
						
						अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया ॥
						
					 
					
						कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः ।
						अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ॥
					 
					
						पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज ।
						मृगान्विता मृगीश्चैव प्रातराशं ददानि ते ॥
					 
					
						ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् ।
						ऋक्षाव्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ॥
					 
					
						वराहामहिषांश्चैव याश्चान्या मृगजातयः ।
						प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः ॥
						जयद्रथ उवाच । 
					 
					
						कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया ।
						एहि मे रथमारोह सुखमाप्नुहि केवलम् ॥
					 
					
						गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः ।
						अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ॥
					 
					
						नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते ।
						युञ्जानमनुयुञ्जीत न शरियः संक्षये वसेत् ॥
					 
					
						श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः ।
						अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ॥
					 
					
						भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि ।
						अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह ॥
						वैशंपायन उवाच । 
					 
					
						इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् ।
						कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ॥
					 
					
						अवमत्यास्य तद्वांक्यमाक्षिप्य च सुमध्यमा ।
						मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ॥
					 
					
						सा काङ्क्षमाणा भर्तृणामुपयातमनिन्दिता ।
						विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती ॥
						द्रैपद्युवाच । 
					 
					
						नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे ।
						पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी ॥
					 
					
						दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह ।
						मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ ॥
					 
					
						धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे ।
						इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत् ॥
					 
					
						राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि ।
						साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः ॥
					 
					
						स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च ।
							सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः' ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि
						अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ 268 ॥ 
					 3-268-3 सौवीरको जयद्रथः ॥ 3-268-7 यदास्यां मे मनोरमते तदा
						भवान्कथं विनिवृत्त इति योज्यम् ॥ 3-268-9 सिंहगोष्ठं गोष्ठमिव गोष्ठं स्थानम् ॥ 3-268-11 अनुतिष्ठति पालयसि । विदिता लब्धाः ॥ 3-268-18 श्रियः संक्षये
						सतीति शेषः । हीनलक्ष्मीके इत्यर्थः ॥ 3-268-19 समाः संवत्सरान् ॥ 3-268-23
						विलोभयामास परमिति झ. पाठः ॥