अध्यायः 270

मृगयागतैः पाण्डवैर्दुर्निमित्तदर्शनाद्विपदाशङ्कया सत्वरं स्वाश्रमाभिगमनम् ॥ 1 ॥ तदा दास्या द्रौपदीवृत्तान्तावगमेन जयद्रथपथानुगतैस्तदवलोकनेन कोपात्समुत्क्रोशनम् ॥ 2 ॥

वैशंपायन उवाच ।
ततो दिशः संपरिवृत्य पार्था मृगान्वराहान्महिपांस्च हन्वा ।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तः सहिता बभूवुः ॥
ततो मृगव्यालजनानुकीर्णं महावनं तद्विहगोपघुष्टम् ।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥
आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति ।
आयासमुग्रं प्रतिवेदयन्तो महाभयं शत्रुभिर्वाऽवमानम् ॥
क्षिप्रं निवर्तध्वमलं मृगैर्नो मनो हि मे दूयति दह्यते च ।
बुद्धिं समाच्छाद्य च मे समन्यु- रुद्धूयते प्राणपतिः शरीरे ॥
सरः सुपर्णन हृतोरगेन्द्र- मराजकं राष्ट्रमिवेह शान्तम् ।
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतसुरश्च कुम्भः ॥
ते सैन्धवैरग्न्यनिलोग्रवेगै- र्महाजवैर्वाजिभिरुह्यमानाः ।
युक्तैर्बृहद्भिः सुरथैर्नृवीरा- स्तदाश्रमायाभिमुखा बभूवुः ॥
तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम् ।
प्रव्याहरत्तत्प्रविमृश्य राजा प्रोवाच भीमं च धनंजयं च ॥
यथा वदत्येप विहीनयोनिः सालावृकोवाममुपेत्य पार्स्वम् ।
सुव्यक्तमस्मानवमत्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥
एत्याथ ते तद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा ।
बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥
तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत् ।
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्ततरस्तदानीम् ॥
किं रोदिषि त्वं पतिता धरण्यां किं त मुखं शुष्यति दीनवर्णम् ।
कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री । `गतेष्वरण्यं हि सुतेषु पाण्डोः कच्चित्परैर्नापकृतं वनेऽस्मिन् ॥
पर्याकुला साधु समीक्ष्यसूत- मभ्यापतन्तं द्रुतमिन्द्रसेनम् ।
उरो घ्नती कष्टतरं तदानी- मुच्चैः प्रचुक्रोश हृतेति देवी ॥
इन्द्रसेन उवाच ।
अनिन्द्यरूपा तु विशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम् ।
`केनात्मनाशाय यदापनीता छिद्रं समासाद्य नरेन्द्रपत्नी' ॥
यद्येव देवीं पृथिवीं प्रविष्टा दिवं प्रपन्नाऽप्यथवा समुद्रम् ।
तस्या गमिष्यन्ति पदे हि पार्था- स्तथा हि संतप्यति धर्मराजः ॥
को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम् ।
प्राणैः समामिष्टतमां जिहीर्षे- दनुत्तमं रत्नमिव प्रमूढः ॥
न बुध्यते नाथवतीमिहाद्य बहिश्चरं हृदयं पाण्डवानाम् ।
कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः ॥
मा त्वं शुचस्तां प्रति भीरु विद्धि यथाऽद्य कृष्णा पुनरेष्यतीति ।
निहत्य सर्वान्द्विषतः समग्रा- न्पार्थाः समेष्यनत्यथ याज्ञसेन्या ॥
अथाब्रवीच्चारुमुखं प्रसृज्य धात्रेयिका सारथिमिन्द्रसेनम् ।
जयद्रथेनापहृताप्रमथ्य पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥
तिष्ठन्ति वर्त्मानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः ।
आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री ॥
सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि ।
गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं व्रजध्वम् ॥
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमूढचित्ता वदनेन शुष्यता ।
ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम् ॥
पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविद्ध्यते ।
पुरा च सोमोऽध्वरगोऽवलिह्यते शुना यथा विप्रजने प्रमोहिते ॥
`पुरा हि पार्थाश्च दृतौ च कापिली प्रसिच्छते क्षीरधारा यतध्वम्' ।
महत्यरण्ये मृगयां चरित्वा पुरा सृगालो नलिनीं विगाहते ॥
`पुरा हि मन्त्राहुतिपूजितायां हुताग्निवेद्यां बलिभुङ्गिलीयते ।
श्रुतिं च सम्यक्प्रसृतां महाध्वरे ग्राम्यो जनो यद्वदसौ न नाशयेत्' ॥
मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम् ।
स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम् ॥
एतानि वर्त्मान्यनुयात शीघ्रं मा वः कालः क्षिप्रमिहात्यगाद्वै ॥
`शीघ्रं प्रधावध्वमितो नरेन्द्रा यावन्न दूरं व्रजतीति पापः ।
प्रत्याहरध्वं द्विषतां सकाशा- ल्लक्ष्मीमिव स्वां दयितां नृसिंहाः' ॥
युधिष्ठिर उवाच ।
भद्रे प्रतिक्राम नियच्छ वाचं माऽस्मत्सकाशे परुषाण्यवोचः ।
राजानो वा यदि वा राजपुत्रा बलेन मत्ताः पञ्चतां प्राप्नुवन्ति ॥
वैशंपायन उवाच ।
एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः ।
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥
ततोऽपश्यंस्तस्य सैन्यस्य रेणु- मुद्धूतं वै वाजिस्वुरप्रणुन्नम् ।
पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीम पार्थेत्यभीक्ष्णम् ॥
ते सान्त्व्य धौम्यं परिदीनसत्वाः सुखं भवानेत्विति राजपुत्राः ।
श्येना यथैवामिषसंप्रयुक्ता जवेन तत्सैन्यमथाभ्यधावन् ॥
तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः ।
क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनंजयश्च ।
यमौ च राजा च महाधनुर्धरा- स्ततो दिशः संमुमुहुः परेषाम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः ॥ 270 ॥

3-270-2 गृगव्यालगणानुकीर्णं इति झ. पाठः ॥ 3-270-3 महावनं शत्रुभिर्बाध्यमानं इति झ. पाठः ॥ 3-270-4 समाच्छाद्य नोहयित्वा । समन्युः दैन्यसहितः । प्राणानां आध्यात्मिकानामिन्द्रियाणां पतिर्मुख्यः प्राणः ॥ 3-270-6 सिन्धुदेशजैर्वाजिभिरश्वैः । सुरथैः शोभनरथैः ॥ 3-270-9 प्रेष्यवधूं दासीम् ॥ 3-270-21 पुरा यावदनर्हते तनुं न ददाति तावच्छाघ्रमनुयातेत्युत्तरेण संबन्धः ॥ 3-270-28 प्रतिक्राम दूरे भव । वरुषाणि अनर्हते तनुं ददातीत्यादीनि ॥ 3-270-32 धर्षणात् पराभवात् ॥