अध्यायः 271

द्रौपद्या जयद्रथंप्रति तत्तल्लक्षणप्रदर्शनपूर्वकं युधिष्ठिरादिनिर्देशः ॥ 1 ॥

वैशंपायन उवाच ।
ततो घोरतरः शब्दो वने समभवत्तदा ।
भीमसेनार्जुनौ दृष्ट्वाक्षत्रियणाममर्षिणाम् ॥
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा स्वयंदुरात्मा कुरुपुङ्गवानाम् ।
जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमतीं हतौजाः ॥
आयान्तीमे पञ्चरथा महान्तो मन्ये च कृष्णे पतयस्तवैते ।
सा जानती ख्यापय नः सुकेशि परंपरं पाण्डवानां रथस्थम् ॥
द्रौपद्युवाच् ।
किं ते ज्ञातैर्मूढ महाधनुर्धरै- रनायुष्यं कर्म कुत्वाऽतिघोरम् ।
एते वीराः पतयो मे समेता न वः शेषः कश्चिदिहास्ति युद्धे ॥
आख्यातव्यं त्वेव सर्वं मुमूर्षो- र्मया तुभ्यं पृष्टया धर्म एषः ।
न मे व्यथा विद्यते त्वद्भयं वा संपश्यन्त्याः सानुजं धर्मराजम् ॥
यस् ध्वजाग्रे नदतो मृदङ्गौ नन्दोपनन्दौ मधुरौ सुयुक्तौ ।
एनं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोऽनुयान्ति ॥
य एष जाम्बूनदशुद्धगौरः । प्रचण्डघोणस्तनुरायताक्षः ।
एतं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरं धर्मसुतं पतिं मे ॥
अप्येष शत्रोः शरणागतस्य दद्यात्प्राणान्धर्मचारी नृवीरः ।
परैह्येनं मूढ जवेन भूतये त्वमात्मनः प्राञ्जलिर्न्यस्शस्त्रः ॥
अथाप्येनं पश्यसि यं रथस्यं महाभुजं सालमिव प्रवृद्धम् ।
संदष्टौष्ठं भ्रुकुटीसंहतभ्रुवं वृकोदरो नाम पतिर्ममैषः ॥
आजानेया बलिनः साधुदान्ता महाबलाः शूरमुदावहन्ति ।
एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोऽस्य ततः पृथिव्याम् ॥
नास्यापराद्धाः शेषमवाप्नुवन्ति नायं वैरं विस्मरते कदाचित् ।
वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च तत्तप्यतीव ॥
धनुर्धराग्र्यो धृतिमान्यशस्वी जितेन्द्रियो वृद्धसेवी नृवीरः ।
भ्राता च शिष्यश्च युधिष्ठिरस्य धनंजयो नाम पतिर्ममैषः ॥
यो वै न कामान्न भयान्न लोभा- त्त्यजेद्धर्मं न नृशंसं च कुर्यात् ।
स एष वैश्वानरतुल्यतेजाः कुन्तीसुतः शत्रुसहः प्रमाथी ॥
यः सर्वधर्मार्तविनिश्चयज्ञो भयार्तानां भयहर्ता मनीषी ।
`बन्धुप्रियः शस्त्रभृतां वरिष्ठो महाहवेष्वप्रतिवार्यवीर्यः' ॥
यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे ।
प्राणैर्गरीयांसमनुव्रतं वै स एष वीरो नकुलः पतिर्मे ॥
यः खङ्गयोधी लघुचित्रहस्तो महांश्च धीमान्सहदेवोऽद्वितीयः ।
यस्याद्यकर्म द्रक्ष्यसे मूढसत्व शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये ॥
शूरः कृतास्त्रो मतिमान्मनस्वी प्रियंकरो धर्मसुतस्य राज्ञः ।
हुताशचन्द्रार्कसमानतेजा जघन्यजः पाण्डवानां प्रियश्च ॥
बुद्ध्या समो यस् नरो न विद्यते वक्ता तथा सत्सु विनिश्चयज्ञः ।
सएष शूरो नित्यममर्षणश्च धीमान्प्राज्ञः सहदेवः पतिर्मे ॥
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं न त्वेवैष व्याहरेद्धर्मबाह्यम् ।
सदा मनस्वी क्षत्रधर्मे रतश्च कुन्त्याः प्राणैरिष्टतमो नृवीरः ॥
विशीर्यनतीं नावमिवार्णवान्ते रत्नाभिपूर्णां मकरस्य पृष्ठे ।
सेनां तवेमां हतसर्वयोधां विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ॥
इत्येते वै कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमत्य प्रवृत्तः ।
यद्येतेभ्यो मुच्यसे रिष्टदेहः पुनर्जन्म प्राप्स्यसे जीवितं च ॥
वैशंपायन उवाच ।
ततः पार्थाः पञ्चपञ्चेन्द्रकल्पा- स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् ।
यथाऽनीकं शरवर्षान्धकारं चक्रुः क्रुद्धाः सर्वतस्ते निगृह्य ॥

3-271-4 अनायुध्यमायुर्नाशकम् ॥ 3-271-8 परैहि शरणं गच्छ । एनं धर्मराजम् ॥ 3-271-10 आजानेया अश्वविशेषाः ॥ 3-271-11 अपराद्धाः अपराधवन्तः ॥ 3-271-16 मूढसत्व मूढबुद्धे । शतक्रतोर्वा शतक्रतोरिव ॥