अध्यायः 274

युधिष्ठिरेण मार्कण्डेयंप्रति स्वसमानदुःखिसत्ताप्रश्नः ॥ 1 ॥

जनमेजय उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्द्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥
वैशंपायन उवाच ।
एवं कृष्णां मोक्षयित्वाविनिर्जित्य जयद्रथम् ।
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्टिरः ॥
तेषां मध्येमहर्षीणां शृण्वतामनुशोचताम् ।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥
भगवन्देवर्षीणां त्वं ख्यातो भूतभविष्यवित् ।
संशयं परिपृच्छमि च्छिन्धि मे हृदि संस्थितम् ॥
द्रुपदस्य सुता ह्येषा वेदिमध्यात्समुत्थिता ।
अयोनिजा महाभागास्नुषा पाण्डोर्महात्मनः ॥
मन्ये कालश्च भगवान्दैवं च दुरतिक्रमम् ।
भवितव्यं च भूतानां यस् नास्ति व्यतिक्रमः ॥
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥
न हि पापं कृतंकिंचित्कर्म वा निन्दितं क्वचित् ।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।
तस्याः संहरणात्पापः शिरसः केशवापनम् ॥
पराजयं च संग्रामे ससहाः समाप्तवान् ।
प्रत्याहृता तथाऽस्माभिर्हत्वा तत्सैन्धवं बलम् ॥
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ।
दुःखश्चायं वने वासो मृगयायां च जीविका ॥
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम् ॥
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः । भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ 274 ॥

3-274-6 दैवं च विधिनिर्मितमिति झ. ध. पाठः । तत्रदैवं धर्माधर्मौ विधिः सदसत्कर्मणी ताभ्यां निर्मितम् ॥ 3-274-7 ईदृशो भावः परेण हरणम् ॥ 3-274-12 मिथ्याव्यवसितैः वृथातापसवेषधरैः । इयं हिंसा क्रियत इति शेषः ॥ 3-274-13 मया सम इतिशेषः ॥