अध्यायः 275

मार्कण्डेयेन युधिष्ठिरंप्रति रामोपाख्यानकथनारम्भः ॥ 1 ॥ तत्ररामाद्युत्पत्तिकथनपूर्वकं रावणोत्पत्त्युपोद्धाततया कुबेरोत्पत्तिकथनम् ॥ 2 ॥

मार्कण्डेय उवाच ।
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥
आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना ।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः ।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥
युधिष्ठिर उवाच ।
कस्मिन्नामः कुले जातः किंवीर्यः किंपराक्रमः ।
रावणः कस्य पुत्रो वा किं वैरं तस् तेन ह ॥
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि । `त्वया प्रत्यक्षोदृष्टं यथासर्वमशेषतः ।'
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥
मार्कण्डेय उवाच ।
अजोनामाभवद्राजा महानिक्ष्वाकुवंशजः ।
तस् पुत्रो दशरथःशश्वत्स्वाध्यायवाञ्छुचिः ॥
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः ।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥
रामस्य माता कौसल्या कैकेयी भरतस्य तु ।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ ॥
विदेहराजो जनकः सीता तस्यात्मजा विमो ।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् ।
रावणस्यापि ते जन्म व्याख्यास्यामि रजनेश्वर ॥
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः ।
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः ।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥
पितरं स समुत्सृज्य पितामहमुपस्थितः ।
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ॥
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः ।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥
पितामहस्तुप्रीतात्मा ददौ वैश्रवणस् ह ।
अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥
ईशानन तथा सख्यं पुत्रं च नलकूवरम् ।
राजधानीनिवेसं च लङ्कांरक्षोगणान्विताम् ॥
विमानं पुष्पकं नाम कामगं च ददौ प्रभुः । यक्षाणामाधिपत्यंच राजराजत्वमेव च ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥ 275 ॥

3-275-2 रावणेन विहायसा इति थ. ध.पाठः ॥ 3-275-9 त्वष्टा योराममहिषीं इति थ. ध. पाठः । त्वष्टा प्रजापतिः स्वयमेव संकल्पेन चकार नतु मैथुनद्वारा । अयोनिजामित्यर्थः ॥ 3-275-12 गवि गोसंज्ञायां भार्यायाम् ॥ 3-275-13 तस्य वैश्रवणस्य कोपात् मां त्यक्त्वा मत्पितरं सेवत इत्यतिज्वलनात् । वैश्रवणं वाधितुं पुलस्त्यएव योगबलेन विश्रवःसंज्ञं देहान्तरं चके इत्यर्थः ॥