अध्यायः 278
रामेण स्वस्य यौवराज्याभिषेचनोद्युक्ते दशरथे मन्थराबोधितायाः
कैकय्या वचनात्सीतालक्ष्मणाभ्यां सह वनगमनम् ॥ 1 ॥ तथा लक्ष्मणकरेण
शूर्पणखावैरूप्यकरणपूर्वकं खरादिहननम् ॥ 2 ॥ ततः क्रुद्धेन रावणेन
रामविप्रचिकीर्षया मारीचसमीपंप्रति गमनम् ॥ 3 ॥
उक्तं भगवता जन्म रामादीनां पृथक्पृथक् ।
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ ।
प्रस्तापितौ वने ब्रह्मन्मैथिली च यशस्विनी ॥
मार्कण्डेय उवाच ।
जातपुत्रो दशरथः प्रीतिमानभवन्नृप ।
क्रियारतिर्धर्मरतः सततं वृद्धसेविता ॥
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः ।
वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः ॥
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्तिव ।
दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी ॥
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः ।
मनोहरतया धीमान्पितुर्हृदयनन्दनः ॥
ततः स राजा मतिमान्मत्वाऽऽत्मानं वयोधिकम् ।
मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः ॥
अभिषेकाय रामस्य यावैराज्येन भारत ।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् ।
कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम् ॥
दीप्यमानं श्रिया वीरं शक्रादनवरं बले ।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् ।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् ।
संदृश्यपरमां प्रीतिमगच्छत्कुलनन्दनम् ॥
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् ।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥
अद् पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति ।
संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥
`श्व एवपुष्यो भविता यत्ररामः सुतो मया ।
यौवराज्येऽभिषेक्तव्यः पौरेषु सहमन्त्रिभिः' ॥
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा ।
कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् ।
आशीविषस्त्वां संक्रुद्धश्छन्नो दशति दुर्भगे ॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता ।
वेदी विलग्नमध्येन बिभ्रती रूपमुत्तमम् ॥
वविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता ।
राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत् ॥
सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान् ।
उपाकुरुष्व तद्राजंस्तस्मान्मुञ्चस्व संकटात् ।
`तदद्य कुरु सत्यं मे वरं वरद भूपते' ॥
राजोवाच ।
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि ।
अवध्यो वध्यतां कोद्य वध्यः कोऽद्य विमुच्यतां ॥
धनं ददानि कस्याद् ह्रियतां कस्यरवापुनः ।
ब्राह्मणस्वादिहान्यत्रयत्किंचिद्वित्तमस्ति मे ॥
पृथिव्यां राजराजोस्मि चातुर्वर्ण्यस् रिता ।
यस्तेऽभिलपितः कामो ब्रूहि कल्याणि माचिरं ॥
सातद्वचनमाज्ञाय परिगृह्य नराधिपम् ।
आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् ।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥
`नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।
चीराजिनजटाधारी रामो भवतु तापसः' ॥
स तं राजा वरं श्रुत्वा विप्रियं दारुणोदयम् ।
दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह ॥
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् ।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा ।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥
ततो वनं गतेरामे राजा दशरथस्तदा ।
समयुज्यत देहस्य कालपर्यायधर्मणा ॥
रामं तु गतमाज्ञाय राजानं च तथागतम् ।
अनार्या भरतं देवी कैकेयी वाक्यमब्रवीत् ॥
गतोदशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ ।
गृहाण राज्यंविपुलं क्षेमं निहतकण्टकम् ॥
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् ।
पतिं हत्वाकुलं चेदमुत्साद्य धनलुब्धया ॥
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने ।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥
स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ ।
अन्वयाद्धातरं रामं विनिवर्तनलालसः ॥
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः ।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः ।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् ।
तापसानामलंकारं धारयन्तं धनुर्धरम् ॥
`उवाच प्राञ्जलिर्भूत्वाप्रणिपत्य रघूत्तमम् ।
शशंस मरणं राज्ञः सोऽनाथांश्चापि कोसलान् ॥
नाथ त्वं प्रतिपद्यस्व स्वराज्यमिति चोक्तवान् ॥
स तस्य वचनं श्रुत्वा रामः परमदुःखितः ।
चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम् ॥
अब्रवीत्स तदारामो भ्रातरं भ्रातृवत्सलम् ।
पादुके मे भविष्येते राज्यगोप्त्र्यौ परंतप ।
एवमस्त्विति तं प्राह भरतः प्रणतस्तदा' ॥
विसर्जितः स रामेण पितुर्वचनकारिणा ।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥
रामस्तु पुनराशङ्क्य पौरजानपदागमम् ।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः ।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् ।
खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥
रक्षार्थं तापसानां तु राघवो धर्मवत्सलः ।
चतुर्दशसहस्राणि जघान भुवि राक्षसान् ॥
दूषणं च स्वरं चैवनिहत्य सुमहाबलौ ।
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥
ततो रावणमभ्येत्य राक्षसी दुःखमूर्च्छिता ।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः ।
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः ।
केनास्येवं कृता भद्रे मामचिन्त्यावमत्य च ॥
कः शूलं तीक्ष्णमासाद्य सर्वगात्रेषु सेवते ।
कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम् ॥
आशीविषं घोरतरं पादेन स्पृशतीह कः ।
सिंहं केसरिणं मत्तः स्पृष्ट्वा दंष्ट्रासु तिष्ठति ॥
इत्येवं ब्रुवतस्तस्य नेत्रेभ्यस्तेजसोऽर्चिषः ।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् ।
खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥
`ततो ज्ञातिवधं श्रुत्वा रावणः कालचोदितः ।
रामस्य वधमाकाङ्क्षन्मारीचं मनसागमत्' ॥
स निश्चित्यततः कृत्यं सागरं लवणाकरम् ।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥
त्रिकूटं समतिक्रम्य कालपर्वतमेव च ।
ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः ।
दयितं स्तानमव्यग्रं शूलपाणेर्महात्मनः ॥
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः ।
पुरा रामभयादेव तापसं प्रियजीवितम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि
अष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥ 278 ॥
3-278-6 रामपदंनिर्वक्ति ज्येष्ठ इति ॥ 3-278-11 सर्वशः
अनुरक्ताः प्रकृतयः प्रजा यस्मिंस्तं सर्वानुरक्तप्रकृतिम् ॥ 3-278-14 भद्रं
ते इति युधिष्ठिरं प्रति आशीर्वचनम् । पुरोहितं वसिष्ठम् ॥ 3-278-15 अद्य
पुण्या तिथिर्ब्रह्मन्पुष्ययोगमुपैष्यतीति ध. पाठः ॥ 3-278-21 प्रणयं
व्यञ्जयन्तीव इति झ. पाठः ॥ 3-278-22 कामं वरं उपाकुरुष्व देहि । संकटात्
कष्ठात् ॥ 3-278-32 कालपर्यायधर्मणा मृत्युना ॥ 3-278-33 आनाय्य भरतं देवी
इति झ.पाठः ॥ 3-278-37 चारित्र्यं विशोष्य इदं कैकेय्यैव कृतं नतु मयेति
प्रदर्श्य ॥ 3-278-56 सिंहं हिंस्रम्. केसरिणं सटावन्तं मृगराजम् ॥ 3-278-57
तस्य स्रोतोभ्यइति झ. पाठः । स्रोतोभ्यश्चुरादिरन्ध्रेभ्यः ।
तेजसोर्चिषोऽग्नेर्ज्वालाः ॥ 3-278-58 खरदूषणसंयुक्तं तत्पराभवसहितम् ॥ 3-278-60 विधिं रक्षाम् ॥