अध्यायः 279

रावणेन भिक्षवेषधारणपूर्वकं मारीचेन मृगरूपधारिणा सह रामाश्रमाभिगमनम् ॥ 1 ॥ मृगग्रहणाय सीताचोदनया तदनुधाविना रामेण राक्षसबुद्ध्या मृगहननम् ॥ 2 ॥ म्रियमाणस्य मारीचस्यहासीते लक्ष्मणेति रामस्वरसमानस्वरश्रदणएन विषण्णाया- सीताया- परुषभाषणश्रवणाल्लक्ष्मणेन राममार्गानुसरणम् ॥ 3 ॥ अत्रान्तरे रावणेन निजरूपधारणपूर्वकं सीतापहरणम् ॥ 4 ॥

मार्कण्डेय उवाच ।
मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम् ।
पूजयामास सत्कारैः फलमूलादिभिस्ततः ॥
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः ।
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव ।
कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ॥
किमिहागमने चापि कार्यं ते राक्षसेश्वर ।
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ॥
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् ।
समासेनैव कार्याणि क्रोधामर्षसमन्वितः ॥
मारीचस्त्वब्रवीच्छ्रत्वा समासेनैव रावणम् ।
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै ॥
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः । प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः ।
विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ॥
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् ।
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ॥
मरीचश्चिन्तयामास विशिष्टान्मरणं वरम् ।
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ॥
ततस्तं प्रत्युवाचाथ मारीचो रक्षसांवरम् ।
किं ते साह्यां मया कार्यं करिष्याम्यवशोपि तत् ॥
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय ।
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ॥
ध्रुवं सीता समालक्ष्यत्वां रामं चोदयिष्यति ।
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ॥
तामादायापनेष्यामि ततः स नभविष्यति ।
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ॥
इत्येवमुक्तोमारीचः कृत्वोदकमथात्मनः ।
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ॥
ततस्तस्याश्रमं गत्वारामस्याक्लिष्टकर्मणः ।
चक्रतुस्तद्यथा सर्वमुभौ यत्पूर्वमन्त्रितम् ॥
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डीत्रिदण्डधृत् ।
मृगश्चभूत्वामारीचस्तं देशमुपजग्मतुः ॥
दर्शयामास मारीचो वैदेहीं मृगरूपधृत् ।
चोदयामास तस्यार्थे सा रामं विधिचोदिता ॥
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः ।
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ॥
स धन्वी बद्धतूणीरः खङ्गगोधाङ्गुलित्रवान् ।
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ॥
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् ।
चकर्ष महदध्वानं रामस्तं वुबुधे ततः ॥
निशाचरं विदित्वा तं राघवः प्रतिभानवान् ।
अमोघं शरमादाय जघान मृगरूपिणम् ॥
स रामवाणाभिहतः कृत्वा रामस्वरं तदा ।
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ॥
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् ।
साप्रापतत्ततः सीता तामुवाचाथ लक्ष्मणः ॥
अलं ते शङ्कया भीरु को रामं प्रहरिष्यति ।
मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मितम् ॥
इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम् ।
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणा ॥
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता ।
नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ॥
अप्यहंशस्त्रमादाय हन्यामात्मानमात्मना ।
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ॥
रामं भर्तारमुत्सुज्यन त्वहं त्वां कथञ्चन ।
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ॥
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघ्नव ।
पिधायकर्णौ सद्वृत्तः प्रस्थितो येन राघवः ॥
स रामस्य पदंगृह्य प्रससार धनुर्धरः ।
अवीक्षमाणो विम्बोष्ठीं प्रययौ लक्ष्मणस्तदा ॥
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत ।
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ॥
यतिवेपप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ।
`उपागच्छत्स वैदेहीं रावणः पापनिश्चयः' ॥
सा तमालक्ष्यसंप्राप्तं धर्मज्ञा जनकात्मजा ।
निमन्त्रयामास तदा फलमूलाशनादिभिः ॥
अवमत्यततः सर्वं स्वं रूपं प्रत्यपद्यत ।
सान्त्वयामास वैदेहीं कामी राक्षसपुङ्गवः ॥
सीते राक्षसराजोऽहंरावणो नाम विश्रुतः ।
मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः ॥
तत्र त्वं नरनारीषु शोभिष्यसि मया सह ।
भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ॥
एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी ।
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ॥
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।
`शुष्येत्तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत् ॥
उष्णांशुत्वमथो जह्यादादित्यो वह्निरुष्णताम्' ।
त्यक्त्वाशैत्यं भजेन्नाहं त्यजेयंरघुनन्दनम् ॥
कथं हि भिन्नकरटं पद्मिनं वनगोचरम् ।
उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ॥
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् ।
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेः ॥
इति सा तं समाभाष्य प्रविवेशाश्रमं ततः ।
क्रोधात्प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः ॥
तामधिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ॥
भर्त्सयित्वातु रूक्षेण स्वरेण गतचेतनाम् ।
मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः ॥
तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः । रुदतीं रामरामेति हियमाणां तपस्विनीम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकोनाशीत्यधिकद्विशततमोऽध्यायः ॥ 279 ॥

3-279-6 राममासाद्यालं रामं नैवासादयेरित्यर्थः ॥ 3-279-14 उदकमौर्ध्वदेहिकम् ॥ 3-279-19 गोधा ज्याधातवारणं अङ्गुलित्रं च तद्वान् । तारामृगं तारारूपं मृगम् । प्रजापतिः स्वां दुहितरं मृगो भूत्वा जगाम तस्य रुद्रः शिरोऽच्छिनत्तदेतन्गृगशीर्षं नाम नक्षत्रम् ॥ 3-279-25 पर्यशतृत लक्ष्मणो मय्यभिलाषवानिति शज्ञामकरोत् ॥ 3-279-26 नैव कालो हयं मूडति क.थ. ध.पाठः ॥ 3-279-40 भिन्नकरटं भिन्नगण्डस्थलंमत्तम् । करेणुर्हस्तिनी ॥ 3-279-41 माध्वीकं मधुपुष्पजं मद्यम् ।मुमाधवीं क्षौद्रजां सुराम् । सीवीरं काज्जिकम् ॥