अध्यायः 283

रामेण शरदागमेऽपिविपयासक्त्यास्वानुपसर्पिणं सुग्रीवप्रति लक्ष्मणप्रेषणम् ॥ 1 ॥ सुग्रीवेण सहरामास्तिकमागतेन लक्षमणेन तंप्रति सीतान्वेषणाय सुग्रीवकृतवानरप्रेपणनिवेदनम् ॥ 2 ॥ ततो लङ्कापुरात्प्रतिनिवृत्तेन हनुमताऽङ्गदादिभिः सह मधुवनभङ्गपूर्वकंरामाय सीतावृत्तान्तादिनिवेदनपूर्वकं तद्दत्तचूडामणिदानम् ॥ 3 ॥

मार्कण्डेय उवाच ।
राघवः सहसौमित्रिः सुग्रीवेणाभिपालितः ।
वसनमाल्यवतः पृष्ठे ददर्श विमलं नभः ॥
सदृष्ट्वाविमले व्योम्नि निर्मलं शसलक्षणम् ।
ग्रहनक्षत्रताराभिरनुयान्तममित्रहा ॥
कुमुदोत्पलपद्मानां गन्धमादाय वायुना ।
महीधरस्थः शीतेन सहसाप्रतिबोधितः ॥
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः ।
सीतां संस्मृत् यधर्मात्मा रुद्धां राक्षसवेश्मनि ॥
गच्छ लक्ष्मण जानीहि किष्किंदायां कपीश्वरम् ।
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ॥
योसौ कुलाधमो मूढो मया राज्येऽभिषेचितः ।
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ॥
यदर्थं निहतो बाली मया रघुकुलोद्वह ।
त्वया सहमहाबाहो किष्किन्धोपवने तदा ॥
कृतघ्नं तमहं मन्ये वानरापशदं भुवि ।
यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण ॥
असौ मन्ये न जानीते समयप्रतिपालनम् ।
कृतोपकारं मां नूनमवमत्याल्पया धिया ॥
यदितावदनुद्युक्तः शेते कामसुखात्मकः ।
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ॥
अथापि घटतेऽस्माकमर्ते वानरपुङ्गवः ।
तमादायैव काकुत्स्थ त्वरावान्भव माचिरम् ॥
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः ।
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ॥
किष्किन्धाद्वारमासाद्यप्रविवेशानिवारितः ।
सक्रोध इतितं मत्वाराजा प्रत्युद्ययौ हरिः ॥
तं सदारोविनीतात्मा सुग्रीवः प्लवगाधिपः ।
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ॥
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः ।
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ॥
सभृत्यदारो राजेन्द्रसुग्रीवो वानराधिपः ।
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ॥
नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निर्घृणः ।
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ॥
दिशः प्रस्थापिताः सर्वेविनीता हरयो मया ।
सर्वेषां च कृतः कालो मासेऽभ्यागमने पुनः ॥
यैरियं सवना साद्रिः सपुरा सागराम्बरा ।
विचेतव्या मही वीर सग्रामनगराकरा ॥
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति ।
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ॥
इत्युक्तो लक्ष्मणत्तेन कवानरेनद्रेण धीमता ।
त्यक्त्वारोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ॥
सरामं सहसुग्रीवो माल्यवत्पुष्ठमास्थितम् ।
भिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ॥
इत्येवंवानरेनद्रास्ते समाजन्मुः सहस्रशः ।
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ॥
आचख्युस्तत्र रामाय महीं सागरमेखलाम् ।
विचितां न तु वैदेह्या दर्शनं रावणस् वा ॥
गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः ।
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत् ॥
द्विमासोपरमे काले व्यतीते प्लवगास्ततः ।
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ॥
रक्षितंवालिना यत्तत्स्फीतं मधुवनं महत् ।
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ॥
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः ।
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ॥
तेषामपनयं श्रुत्वा मेने सकृतकृत्यताम् ।
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ॥
स तद्रामाय मेधावी शशंस प्लवगर्षभः ।
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ॥
हनुमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः ।
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ ॥
गतिं च मुखवर्णं च दृष्ट्वारामो हनूमतः ।
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ॥
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः ।
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ॥
तानुवाचानतान्रामः प्रगृह्य सशरं धनुः ।
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ॥
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः ।
निहत्यसमरे शत्रूनाहृत्यजनकात्मजाम् ॥
अमोक्षयित्वावैदेहीमहत्वा च रणे रिपून् ।
हृतदारोऽवधूतश्चनाहं जीवितुमुत्सहे ॥
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः ।
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ॥
विचित्य दक्षिणामाशां सपर्वतवनाकराम् ।
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहां ॥
प्रविशामो वयं तां तु बहुयोजनमायताम् ।
अन्धकारां सुविपिनां गहनां कीटसेविताम् ॥
गत्वा सुमहदध्वानमादित्यस् प्रभां ततः ।
दृष्टवन्तः स्म तत्रैवभवनं दिव्यमन्तरा ॥
गयस् किल दैत्यस् तदा सद्वेश्म राघव ।
तत्रप्रभावती नाम तपोऽतप्यत तापसी ॥
तया दत्तानि भोज्यानिपानानिविविधानि च ।
भुकत््वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ॥
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः ।
समीपे सह्यमलयौ दर्दुरं च महागिरिम् ॥
ततो मलयमारुह्य पश्यन्तो वरुणालयम् ।
कविषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ॥
अनेकशतविस्तीर्णं योजनानां महोदधिम् ।
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ॥
तत्रानशनसंकल्पं कृत्वाऽऽसीना वयं तदा ।
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ॥
ततः पर्वतशृङ्गाभं घोररूपं भयावहम् ।
पक्षिणं दृष्टवन्तः स्म वैनतियेमिवापरम् ॥
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् ।
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ॥
संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः ।
अन्योन्यस्पर्धया रूढावावामदित्यसत्पदम् ॥
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः ।
तस्मान्मे चिरदृष्टः स भ्राता गृध्रपतः प्रियः ॥
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ।
`द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम्' ॥
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः ।
व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम् ॥
स सम्पातिस्तदा राजञ्श्रुत्वासुमहदप्रियम् ।
विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ॥
कः सरामः कथं सीता जटायुश्च कथं हतः ।
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ॥
तस्याहं सर्वमेवैतद्भवतो व्यसनागमम् ।
प्रायोपवेशने चैवहेतुं विस्तरशोऽब्रुवम् ॥
सोऽस्मानाश्वासयामास वाक्येनानेन पक्षिराट् ।
रावणो विदितो मह्यं लङ्का चास्य महापुरी ॥
दृष्टापारे समुद्रस्य त्रिकूटगिरिकन्दरे ।
भवित्री तत्र वैदेही न रमेऽस्त्यत्रविचारणा ॥
इतितस्य वचः श्रुत्वा वयमुत्थाय सत्वराः ।
सागरक्रमणे मन्त्रं मन्त्रयामः परंतप ॥
नाध्यवास्यद्यदा कश्चित्सागरस्य विलङ्घनम् । ततः पितरमाविश्य पुप्लुवेऽहंमहार्णवम् ।
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ॥
उपवासतपःशीला भर्तृदर्शनलालसा ।
जटिला मलदिग्धाङ्गीकृश दीना तपस्विन ॥
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः ।
उपसृत्याब्रवं चार्यामभिगम्य रहोगताम् ॥
सीते रामस्य दूतोऽहंवानरोमारुतात्मजः ।
त्वद्दर्शनमभिप्रप्सुरिह प्राप्तो विहायसा ॥
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ ।
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥
कुशलंत्वाब्रवीद्रामःसीते सौमित्रिणा सह ।
सखिभावाच् सुग्रीवः कुशलं त्वाऽनुपृच्छति ॥
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह ।
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ॥
मुहूर्तमिवच ध्यात्वा सीता मां प्रत्युवाच ह ।
अवैमि त्वांहनूमन्तमविन्ध्यवचनादहम् ॥
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः ।
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ॥
गम्यतामिति चोक्त्वा मां सीता पादादिमं मणिम् ।
घारिता येन वैदेही कालमेतमनिन्दिता ॥
प्रत्ययार्थं कथां चेमां कथयामास जानकी ।
क्षिप्तामिषीकां काकाय चित्रकूटे महागिरौ ॥
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ।
`एकाक्षिविकलः काकः सुदुष्टात्मा कृतश्चवै' ॥
ग्राहयित्वाऽहमात्मानं ततो दग्ध्वाच तां पुरीम् । संप्राप्त इतितं रामः प्रियवादिनमार्चयत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि त्र्यशीत्यधिकद्विशततमोऽध्यायः ॥ 283 ॥

3-283-5 ग्राम्यधर्मेषु मैथुनादिषु निमित्तभूतेषु । प्रमत्तमसावधानम् ॥ 3-283-12 गुरोर्वाक्ये हिते च रतस्तत्परः ॥ 3-283-26 सयोरुपरमः समाप्तिर्यस्मिस्तस्मिन्काले ॥ 3-283-35 कारयिष्यामि स्वार्थे णिच् ॥ 3-283-49 सत्पदं गतवन्ताविति शेषः ॥ 3-283-68 धरिता जीवनं प्राप्ता ॥