अध्यायः 288

लक्ष्मणेन कुम्भकर्णवधः ॥ 1 ॥ हनुमन्नीलाक्ष्यां वज्रवेगप्रमाथिनोर्वधः ॥ 2 ॥

मार्कण्डेय उवाच ।
ततो निर्याय स्वपुरात्कुम्भकर्णः सहानुगः ।
अपश्यत्कपिसैन्यं रतज्जितकाश्यग्रतः स्थितम् ॥
स वीक्षमाणस्तत्सैन्यं रामदर्शनकाङ्क्षया ।
अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम् ॥
तमभ्येत्याशु हरयः परिवब्रुः समन्ततः ।
`शैलवृक्षायुधा नादानमुञ्चन्भीषणास्ततः' ॥
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ।
करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः ।
नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन् ॥
स ताड्यमानः प्रहसन्भक्षयामास वानरान् ।
बलं चण्डबलाख्यं च वज्रबाहुं च वानरम् ॥
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः ।
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥
तानुच्चैः क्रोशतः सैन्याञ्श्रुत्वा स हरियूथपान् ।
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥
ततो निपत्य वेगेन कुम्भकर्णं महामना ।
सालेन जघ्निवान्मूर्ध्निं बलेन कपिकुञ्जरः ॥
स महात्मा महावेगः कुम्भकर्णस् मूर्धनि ।
बिभेद सालं सुग्रीवो न चैवाव्यथयत्कपिः ॥
ततो विनद्यसहसा सालस्पर्शविबोधितः ।
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा ।
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥
सोऽभिपत्य महर्वेगं रुक्मपुङ्खं महाशरम् ।
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥
स तस्य देहावरणं भित्त्वा देहं च सायकः ।
जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् ।
`वेगेन महताऽऽविष्टस्तिष्ठतिष्ठेति चाब्रवीत् ॥
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ।
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥
तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छितौ करौ ।
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥
तानप्यस् भुजान्सर्वान्प्रगृहीतशिलायुधान् ।
क्षुरैश्चिच्छेदलघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ॥
स बभूवातिकायश्च बहुपादशिरोभुजः ।
तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम् ॥
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे ।
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥
तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् ।
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥
तथातान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ ।
अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम् ॥
तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ ।
अभिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥
ततः सुतुमुलं युद्धमभवद्रोमहर्षणम् ।
दूषणानुजयोः पार्थ लक्ष्मणस् च धीमतः ॥
महता शरवर्षेण राक्षसौ सोऽभ्यवर्पत ।
तं चापिवीरौ संक्रुद्धावुभौ तौ समवर्षताम् ॥
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः ।
सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः ॥
अथाद्रिशृङ्गमादाय हनुमान्मारुतात्मजः ।
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥
नीलश्च महता ग्राव्णा दूपणावरजं हरिः ।
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ॥
ततः प्रावर्तत पुनः संग्रामः कटुकोदयः ।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥
शतसो नैर्ऋतान्वन्या जघ्नुर्वन्यांश्च नैर्ऋताः । नैर्ऋतास्तत्रवध्यन्ते प्रायेण न तु वानराः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि अष्टाशीत्यधिकद्विशततमोऽध्यायः ॥ 288 ॥

3-288-1 जितकाशि दृढमुष्टि । काशिर्मुष्टिः प्रकाशनादिति यास्क ॥ 3-288-30 वन्या वनेचरा वानराः ॥