अध्यायः 290
					 इन्द्रजिच्छरजालबन्धेन मोहाधिगमपूर्वकं भूमौ पतितयो
						रामलक्ष्मणयोर्विभीषणेन प्रज्ञानास्त्रेण मोहापनोदनम् ॥ 1 ॥ तथा सुग्रीवेण
						महौषध्या तयोर्विशल्यीकरणम् ॥ 2 ॥ ततो रामादीनां नेत्रेषु
						कुबेरदूतानीतजलमार्जनेनातीन्द्रियवनस्तुदर्शनशक्त्युदयः ॥ 3 ॥ ततः
						पुनरुपागतस्येन्प्रजितो लक्ष्मणेन वधः ॥ 4 ॥ ततः पुत्रवधामर्षेण
						सीतावधोद्यतस्य रावणस्याविन्ध्याख्येन वृद्धामात्येन साम्ना ततो विनिवर्तनम् ॥ 5 ॥ 
					
					
						तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
						बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥
					 
					
						तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे ।
						रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥
					 
					
						दृष्ट्वा निपतितौ भूमौ सर्वाङ्गेषु शराचितौ ।
						सुग्रीवः कपिभिः सार्धं परिवार्योपतस्तिवान् ॥
					 
					
						सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च ।
						हनुमननीलतारैश्च नलेन च कपीश्वरः ॥
					 
					
						ततस्तं देशमागम्य कृतकर्मा विभीषणः ।
						बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रमोहितौ ॥
					 
					
						विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह ।
						विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥
					 
					
						तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम् ।
						उभौ गतक्लमौ चास्तां णेनैतौ महारथौ ॥
					 
					
						ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् ।
						उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ॥
					 
					
						अयमम्भो गृहीत्वातु राजराजस् शासनात् ।
						गुह्कोऽभ्यागतः श्लेतात्त्वत्सकाशमरिंदम ॥
					 
					
						इदमम्भः कुबेरस्ते महाराज प्रयच्छति ।
						अन्तर्हितानां भूतानां दर्शनार्थं परंतप ॥
					 
					
						अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत ।
						भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥
					 
					
						तथेति रामस्तद्वारि प्रतिगृह्याभिसंस्कृतम् ।
						चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ॥
					 
					
						सुग्रीवजाम्बवन्तौ चहनुमानङ्गदस्तथा ।
						मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥
					 
					
						तथासमभवच्चापि यदुवाच विभीषणः ।
						क्षणेनातीन्द्रियाण्येषां चक्षुंष्यासन्युधिष्ठिर ॥
					 
					
						इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदाऽऽत्मनः ।
						निवेद्य पुनरागच्छत्त्वरयाऽऽजिशिरःप्रति ॥
					 
					
						तमागतं तु संक्रुद्धं पुनरेव युयुत्सया ।
						अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ॥
					 
					
						अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् ।
						शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः ॥
					 
					
						तयोः समभवद्युद्धं तदाऽन्योन्यं जीगीषतोः ।
						अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥
					 
					
						अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः ।
						सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥
					 
					
						सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्च्छितः ।
						असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥
					 
					
						तस्येषून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः ।
						`वारयामास नाराचैः सौमित्रिर्मित्रनन्दनः ॥
					 
					
						असृजल्लक्ष्मणश्चाष्टौ राक्षसाय शरान्पुनः' ।
						तथा तं न्यहनद्वीरस्तन्मे निगदतः शृणु ॥
					 
					
						एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् ।
						द्वितीयेन तु बाणेन भुजमन्यमपातयत् ॥
					 
					
						तृतीयेन तु बाणेन शितधारेण भास्वता ।
						जहार सुनसं चापि शिरो ज्वलितकुण्डलम् ॥
					 
					
						विनिकृत्तभुजस्कन्धः कबन्धाकृतिदर्शनः ।
						`पपात वसुधायां तु छिन्नमूल इवद्रुमः' ॥
					 
					
						तं हत्वासूतमप्यस्त्रैर्जघान बलिनंवरः ।
						लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा ॥
					 
					
						ददर्श रावणस्तं च रथं पुत्रविनाकृतम् ।
							स पुत्रं निहतं श्रुत्वा त्रासात्संभ्रान्तमानसः ।
						
					 
					
						रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ॥
						ङ्गमादाय दुष्टात्मा जवेनाभिपपात ह ॥
					 
					
						तं दृष्ट्वातस्य दुर्बुद्देरविन्ध्यः पापनिश्चयम् ।
						शमयामास संक्रुद्धं श्रूयतां येन हेतुना ॥
					 
					
						महाराज्येस्थितो दीप्ते न स्त्रियं हन्तुमर्हसि ।
						हतैवैषा यदा स्त्री च कबन्धनस्था च ते वशे ॥
					 
					
						न चैषा दहभेदेन हतास्यादिति मे मतिः ।
						जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ॥
					 
					
						न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः ।
						असकृद्धि त्वया सन्द्रास्त्रासितास्त्रिदसा युधि ॥
					 
					
						एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा ।
						क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥
					 
					
						निर्याणे स मतिं कृत्वा नियन्तारं क्षपाचरः ।
							आज्ञापयामास तदारथो मे कल्प्यतामिति ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि नवत्यधिकद्विशततमोऽध्यायः ॥ 290 ॥ 
					 3-290-14 अतीन्द्रियाण्यतीन्द्रियार्थग्राहकाणि ॥ 3-290-17
						कृतसंज्ञ विभीषणेन संकेतितः ॥ 3-290-34 निधायासिं क्षपाचर इति झ. पाठः । निधाय
						बद्ध्वा । असिं खङ्गम् ॥