अध्यायः 293

मार्कण्डेयेन स्वस्यानुपमदुःखानुभवितृत्वबुद्ध्या शोचतोयुधिष्ठिरस्य रामोपाख्यानकथनपूर्वकं हेतूपन्यासेन शोकापनोदनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
एवमेतन्महाबाहो रामेणामिततेजसा ।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥
मा शुचः परुषव्याघ्र क्षत्रियोसि परंतप ।
बाहुवीर्याश्रयेमार्गे वर्तसे दीप्तनिर्णये ॥
न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि ।
अस्मिन्मार्गे निपीदेयुः सेन्द्रा अपि सुरासुराः ॥
संहत्य निहतोवृत्रो मरुद्भिर्वज्रपाणिना ।
नमुचिश्चैवदुर्धर्षो दीर्गजिह्वा चराक्षसी ॥
सहायवति सर्वार्थाः सतिष्ठन्तीह सर्वशः ।
किंनु तस्याजितं सङ्ख्ये यस् भ्राता धनंजयः ॥
अयं च बलिनांश्रेष्ठो भीमो भीमपराक्रमाः ।
युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ ॥
एभिः सहायैः कस्मात्त्वं विषीदसि परंतप ।
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् ॥
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ।
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ॥
इतश्च त्वमिमां पश्यसैन्धवेन दुरात्मना ।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् ।
जयद्रथं च राजानं विजितं वशमागतम् ॥
असहायेन रामेण वैदेही पुनराहृता ।
हत्वासङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥
यस् शाखामृगामित्राण्यृक्षाः कालमुखास्तथा ।
जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय ॥
तस्मात्सर्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ ।
त्वद्विधा हि महात्मानो न शोचन्ति परंतप ॥
वैशंपायन उवाच ।
एवमाश्वासितो राजामार्कण्डेयेन धीमता । त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपपर्वणि त्रिनवत्यधिकद्विशततमोऽध्यायः ॥ 294 ॥

3-293-2 दीप्तनिर्णये असंदिग्धे प्रत्यक्षफले ॥