अध्यायः 295

मनसा स्वानुगुणनिर्धारणपूर्वकं वनादागतया सावित्र्या नारदेन सह संभाषमाणस्य पितुरन्तिकमेत्य तयोः पादाभिवादनम् ॥ 1 ॥ नारदसंनिधौ पित्रा पृष्टया तथा द्युमस्सेनसूनोः सत्यवतः पठित्वेन मनसा वरणकथनम् ॥ 2 ॥ पित्रा नारदवचनात्तस्याल्पायुष्ट्वनिवेदनपूर्वकं वरान्तरवरणं चोदितयापि तया स्वाध्यवसायादनिवर्तनम् ॥ 3 ॥ राज्ञापि तस्या निर्वन्धान्नारदवचनाच्च तस्मा एव तस्या दानाध्यवसानम् ॥ 4 ॥

मार्कण्डेय उवाच ।
अथ मद्राधिपो राजा नारदेन समागतः ।
उपविष्टः सभामध्ये कथायोगेन भारत ॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा ।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥
नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा ।
उभयोरेव शिरसा चक्रे पादाभिवादनम् ॥
नारद उवाच ।
क्व गताऽभूत्सुतेयं ते कुतश्चैवागता नृप ।
किमर्थं युवतीं भद्र न चैनां संप्रयच्छसि ॥
अश्वपतिरुवाच ।
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता ।
एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥
मार्कण्डेय उवाच ।
सा ब्रूहि विस्तरेणेति पित्रा संयोदिता शुभा ।
तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत् ॥
आसीत्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ।
द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह ॥
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः ।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ।
महारण्यं गतश्चापि पस्तेषे महाव्रतः ॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने ।
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥
नारद उवाच ।
अहो वत महत्पापं सावित्र्या नृपते कृतम् ।
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।
तथाऽस् ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् ।
चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते ॥
राजोवाच ।
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः ।
क्षमावानपि वा शृरः सत्यवान्पितृवत्सलः ॥
नारद उवाच ।
विवस्वानिव तेजस्वी वृहस्पतिसमो मतौ ।
महेन्द्र इवन वीरश्च वसुधेव क्षमान्वितः ॥
अश्वपतिरुवाच ।
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान् ।
रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः ॥
नारद उवाच ।
सांकृते रन्तिदेवस् स्वशक्त्या दानतः समः ।
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः ।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥
`स वदान्यः स तेजस्वीधीमांश्चैव क्षमान्वितः' । स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः ।
सन्मैत्रः सोनसूयश्च स ह्रीमान्द्युतिमांश्च सः ॥
नित्यशश्चार्जवं तस्मिन्धृतिस्तत्रैव च ध्रुवा ।
संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥
अश्वपतिरुवाच ।
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे ।
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥
नारद उवाच ।
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति ।
स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् ॥
एको दोषोऽस्ति नान्योऽस्य सोद्यप्रभृति सत्यवान् ।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥
राजोवाच ।
एहि सावित्रि गच्छस्व अन्यं वरय शोभने ।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः ॥
यथा मे भगवानाह नारदो देवसत्कृतः ।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥
सावित्र्युवाच ।
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
स कृदाह ददानीति त्रीण्येतानि सकृत्सकृते ॥
दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा ।
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥
मनसा निश्चयं कृत्वाततो वाचाऽभिधीयते ।
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ॥
नारद उवाच ।
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव ।
नैषा वारयितुं शक्या धर्मादस्मात्कथंचन ॥
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः ।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥
राजोवाच ।
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः ।
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥
नारद उवाच ।
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव ।
साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः ॥
मार्कण्डेय उवाच ।
एवमुक्त्वा स्वमुत्पत्य नारदस्त्रिदिवं गतः । राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥ 295 ॥

3-295-1 कथायोगेन कथाप्रसङ्गेन ॥ 3-295-8 सामीप्येन समीपवासिना । छिद्रे अन्धत्वे सति ॥ 3-295-10 स्यवान्नामतः ॥ 3-295-14 तेजस्वी प्रभाववान् ॥ 3-295-17 सांकृतेः संकृतिपुत्रस्य ॥ 3-295-22 आक्रम्य अभिभूय ॥ 3-295-26 अंशः काष्ठपाषाणादेः शकलः सकृन्निपतति । कृतस्य करणं नास्तीत्यर्थः ॥ 3-295-31 एतत् सावित्र्या वचनं अविचाल्यं भवता च तथ्यं उक्तम् ॥ 3-295-32 साधयिष्यामि गमिष्यामि ॥