अध्यायः 297

कदाचन नारदनिर्दिष्टेसत्यवतो मृतिदिवसे सावित्र्या परशुहस्तस्य वनंगच्छतो भर्तुरनुगमनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ।
प्राप्तः स कालो मर्व्यं यत्रसत्यवता नृप ॥
गणयन्त्याश्च सावित्र्या दिवसदिवसे गते ।
यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥
चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी ।
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत् ॥
`त्रयोदश्यां चोपवासं प्रतिपत्सु च पारणम् ।
आयुष्यं वर्धते भर्तुर्व्रतेनानि भारत' ॥
तं श्रुत्वा रकनियमं तस्या भृशं दुःखान्वितो नृपः ।
उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ॥
अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे ।
तिसृणां वसतीनां हि स्तानं परमदुश्चरम् ॥
सावित्र्युवाच ।
न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम् ।
व्यसंसायकृतं हीदं व्यवसायश्च कारणम् ॥
द्युमत्सेन उवाच ।
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन ।
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ॥
मार्कण्डेय उवाच ।
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः ।
तिष्ठन्ती चैव सावित्री काण्ठभूतेव लक्ष्यते ॥
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ ।
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् ।
युगमात्रोदिते सूर्येकृत्वा पौर्वाङ्णिकीः क्रियाः ॥
`व्रतं समाप्यसावित्री स्नात्वा शुद्धा यशस्विनी' । ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च ।
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः ।
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा ।
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनी ॥
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा ।
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् ।
एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम ॥
व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया ।
आहारकालः संप्राप्तः क्रियतां यदनन्तरम् ॥
सावित्र्युवाच ।
अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया ।
एष मे हृदि संकल्पः समयश्च कृतो मया ॥
मार्कण्डेय उवाच ।
एवं संभाषमाणायाः सावित्र्या भोजनं प्रति ।
स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि ।
सह त्वया गमिष्यामि न हित्वां हातुमुत्सहे ॥
सत्यवानुवाच ।
वनं न गतपूर्वं ते दुःख पन्थाश्च भामिनि ।
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥
सावित्र्युवाच ।
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः ।
गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि ॥
सत्यवानुवाच ।
यदि ते गमनोत्साहः करिष्यामि तव प्रयम् ।
मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥
मार्कण्डेय उवाच ।
साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता ।
अयं गच्छति मे भर्ता फलाहारो महावनम् ॥
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह ।
अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः ॥
गुर्वग्निहोत्रार्तकृतेप्रस्थितश्च सुतस्तव ।
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ॥
संवत्सरः किंचिदूनो न निष्क्रान्ताऽहमाश्रमात् ।
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥
द्युमत्सेन उवाच ।
यदा प्रभृति सावित्री पित्रा दत्ता स्नाषु मम ।
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥
तदेषा लभतां कामं यथाभिलषितं वधूः ।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥
मार्कण्डेय उवाच ।
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।
सहभर्त्रा हसन्तीव हृदयेन विदूयता ॥
सा वनानि विचित्राणि रमणीयानि सर्वशः ।
मयूरगणजुष्टानि ददर्श विपुलेक्षणा ॥
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् ।
सत्यवानाह पश्येति सावित्रीं मधूरं वचः ॥
नीरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता ।
मृतमेव हिं मेने काले मुनिवचः स्मरन् ॥
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी । द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ॥

इति श्रीमन्महाभारते अरण्यपर्वणि पतिब्रतामाहात्म्यपर्वणि सप्तनवत्यधिकद्विशततमोऽध्यायः ॥ 297 ॥

3-297-6 वसतीनां स्थानं भोजनत्रयनिरोधः । उपवसतीत्यादौ वसतेस्तादर्थ्यदर्शनात् ॥ 3-297-7 पारयिष्यामि समापयिष्यामि । व्यवसायकृतमुद्योगकृतम् ॥ 3-297-11 रकयुगं हस्तचतुष्कं तावदुदिते उपरि याते ॥ 3-297-33 सर्वावस्थमतन्द्रिता इति क. थ. पाठः । स्मरन्निति व्यत्ययेन पुंस्त्वम् ॥