अध्यायः 299
अकस्माच्चक्षुर्लाभतुष्टनापि पुत्रानागमविषण्णेन द्युमत्सेनन
तत्रतत्रतदन्वेषणम् ॥ 1 ॥ ऋषिगणेन शुभनिमित्तज्ञापनेन समाश्वासिते
तस्मिन्सावित्र्यासह सत्यवता पितुराश्रमाभिगमनम् ॥ 2 ॥ मुनिगणाय सावित्र्या
वने वृत्तवृत्तान्तनिवेदनम् ॥ 3 ॥
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः ।
लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह ॥
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया ।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभ ॥
तावाश्रमान्नदीश्चैववनानि च सरांसि च ।
तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः ॥
श्रुत्वा शब्दं तु यं कंचिदुन्मुखौ सुतशङ्कया ।
सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम् ॥
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः ।
कुशकणअटकविद्धाङ्गावुनमत्ताविव धावतः ॥
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः ।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम् ॥
तत्रभार्यासहायः स वृतो वृद्धैस्तपोधनैः ।
आश्वासितोपि चित्रार्थैः पूर्वराजकथाश्रयैः ॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया ।
बाल्यवृत्तानि पुत्रस्य सावित्र्या दर्शनानि च ।
शोकं जग्मतुरन्योन्यं स्मरन्तौ भृशदुःखितौ ॥
हापुत्र हासाध्वि वधु क्वासिक्वासीत्यरोदताम् ।
ब्राह्मणः सत्यवाक्येषामुवाचेदं तयोर्वचः ॥
सुवर्चा उवाच ।
यथास्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥
गौतम उवाच ।
वेदाः साङ्गा मयाऽधीतास्तपो मे संचितं महत् ।
कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः ॥
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे ।
वायुभक्षोपवासश्च कृतोमे विधिवत्सदा ॥
अनेन तपसा वेद्मि सर्वं परचीकीर्षितम् ।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति ॥
शिष्य उवाच ।
उपाध्यायस्य मे वक्राद्यथा वाक्यं विनिःसृतम् ।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥
ऋषय ऊचुः ।
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥
भारद्वाज उवाच ।
यथाऽस्य भार्या सावित्री तपसा च दमेन च ।
आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥
दाल्भ्या रउवाच ।
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।
गताऽऽहारमकृत्वैव तथा जीवति सत्यवान् ॥
आपस्तम्ब उवाच ।
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।
पार्थिवीं चैववृद्धिं ते तथा जीवति सत्यवान् ॥
धौम्य उवाच ।
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः ।
दीर्घायुर्लक्षणोपेतस्तथा जीवति स्यवान् ॥
मार्कण्डेय उवाच ।
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।
तांस्तान्विगणयन्सर्वांस्ततः स्थिर इवाभवत् ॥
ततो मुहूर्तात्सावित्री भर्त्रा सत्वता सह ।
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥
`दृष्ट्वा चोत्पतिताः सर्वेहर्षं जग्मुश्च ते द्विजाः ।
कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदतां' ॥
ब्राह्मणा ऊचुः ।
पुत्रेण संगतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च ।
सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते ॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च ।
चक्षुषश्चात्मनो लाभात्रिभिर्दिष्ठ्या विवर्धसे ॥
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्रसंशयः ।
भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति ॥
मार्कण्डेय उवाच ।
ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि ।
उपासांचक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥
शैव्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।
सर्वैस्तैरभ्यनुज्ञाता विशोका समुपाविशन् ॥
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः ।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो ।
विरात्रे चागतं कस्मात्कोनु बन्धस्तवाभवत् ॥
संतापितः पिता माता वयं चैव नृपात्मज ।
कस्मादिति न जानीमस्तत्सर्वं वक्तुमर्हिसि ॥
सत्यवानुवाच ।
पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः ।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये ।
तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥
सर्वेषामेव भवतां संतापो मा भवेदिति ।
अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥
गौतम उवाच ।
अकस्माच्चक्षुः प्राप्तिर्द्युमत्सेनस्य ते पितुः ।
नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति ॥
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् ।
रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥
सावित्र्युवाच ।
एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः ।
न हि किंचिद्रहस्यं मे श्रूयतां तथ्यमेव यत् ॥
मृत्युर्मे पत्युराख्यातो नारदेन महात्मना ।
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥
सुप्तं चैनं साक्षादुपागच्छत्सकिंकरः ।
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥
अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥
चक्षुषी च स्वराज्यंच द्वौ वरौ श्वशुरस्य मे ।
लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम् ॥
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।
भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम् ।
एतत्सर्वं मयाऽऽख्यातं कारणं विस्तरण वः ।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥
ऋषय ऊचुः ।
निमज्ज्मानं व्यसनैरभिद्रुतं
कुलं नरन्द्रस्य तमोमये ह्रदे ।
त्वया सुशीलव्रतपुण्यया कुलं
रसमुद्धृतं साध्वि पुनः कुलीनया ॥
मार्कण्डेय उवाच ।
तथा प्रशस्य ह्यभिपूज्य चैव
वरस्त्रियं तामृषयः समागताः ।
नरेन्द्रमामन्त्र्य सपुत्रभञ्जसा
शिवेन रजग्मुर्मुदिताः स्वमालयम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि एकोनत्रिशततमोऽध्यायः ॥ 299 ॥
3-299-5 भिन्नौर्विदीर्णैः । परुषैः कर्कशैः ॥ 3-299-12
कुशलानि च यानि मे इति ध.पाठः ॥ 3-299-18 शान्तायां प्रसन्नायाम् ॥ 3-299-29
विरात्रे बहुरात्रे काले आगतं आगमनम् ॥