अध्यायः 303

कर्णएन सूर्यंप्रति सानुनयं शक्राय कवचकुण्डलदानेऽभ्यनुज्ञाप्रार्थना ॥ 1 ॥ सूर्येण कर्णंप्रति शक्राच्छक्तिग्रहणचोदनापूर्वकं कुण्डलादिदानाभ्यनुज्ञानम् ॥ 2 ॥

कर्ण उवाच ।
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते ।
तथा परमतिग्मांशो नास्त्यदेयं कथंचन ॥
न मे दारा न मेपुत्रा न चात्मा सुहृदो न च ।
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ॥
इष्टानां च महात्मानो भक्तानां च न संशयः ।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ॥
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि ।
जानीत इतिवै कृत्वा भगवानाह मद्धितम् ॥
भूयश्च शिरसा याचे प्रसाद्य च पुनःपुनः ।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ॥
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् ।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ॥
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ।
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति ॥
व्येतु संतापजं दुःखं तव भास्कर मानसम् ।
अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम् ॥
तवापि विदितं देव ममाप्यस्त्रबलं महत् ।
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ॥
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम ।
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ॥
सूर्य उवाच ।
यदि तात ददास्येते वज्रिणे कुण्डले शुभे ।
त्वमप्येनमथो ब्रूया विजयार्थं महाबल ॥
नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः ।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ॥
अर्जुनन विनाशं हि तव दानवसूदनः ।
प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति ॥
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः ।
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ॥
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् ।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ॥
इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले ।
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् ॥
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः ।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ॥
वैशंपायन उवाच ।
एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत ।
`कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव ॥
प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत ।
चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर ॥
यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप ।
शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह ॥
स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ ।
ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत् ॥
विधिना राजशार्दूल मुहूर्तमजपत्तदा' ।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ॥
यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि ।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ॥
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः ।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ॥
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा । शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि त्र्यधिकत्रिशततमोऽध्यायः ॥ 303 ॥

3-303-23 अस्मै सूर्याय । वृषः क्रणः ॥ 3-303-24 स्वर्भानुसूदनः राहुदमनः ॥