अध्यायः 304
					 स्वावासे दुर्वाससमावासयता कुन्तिभोजेन तत्परिचर्यायै कुन्त्या
						नियोजनम् ॥ 1 ॥ 
					
					
						किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना ।
						कीदृशेकुण्डले ते च कवचं रचैव कीदृशम् ॥
					 
					
						कुतश्च कवचं तस्यं कुण्डलेचैव सत्तम ।
						एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ॥
						वैशंपायन उवाच । 
					 
					
						अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः ।
						यादृशे कुण्डले ते च कवचं वैव यादृशम् ॥
					 
					
						कुन्तिभोजं पुरा राजन्ब्राह्मणः पर्युपस्थितः ।
						तिग्मतेजा महान्प्रांशुः श्मश्रुदण्डजटाधरः ॥
					 
					
						दर्सनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव ।
						मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ॥
					 
					
						स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः ।
						भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर ॥
					 
					
						न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः ।
						एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ॥
					 
					
						यथाकामं च गच्छेयमागच्छेयं तथैव च ।
						शय्यासने च मे राजन्नापराध्येत कश्चन ॥
					 
					
						तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः ।
						एवमस्तु परंचेति पुनश्चैवमथाब्रवीत् ॥
					 
					
						मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी ।
						शीलवृत्तान्विता साध्वी नियताऽनवमानिनी ॥
					 
					
						उपस्थास्यति सा त्वां वै पूजयाऽनवमत्य च ।
						तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥
					 
					
						एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि ।
						उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ॥
					 
					
						अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति ।
						मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ॥
					 
					
						त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम् ।
						तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित् ॥
					 
					
						अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः ।
						यद्यद्ब्रूयान्महातेजास्तत्तद्देयमात्सरात् ॥
					 
					
						ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः ।
						ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ॥
					 
					
						अमानयन्हि दाण्डक्यो वातापिश्च महासुरः ।
							निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ।
						
						`वैन्ध्याद्रिश्च समुद्रश्च नद्दुषश्च विहिंसितः' ॥
						
					 
					
						सोयं वत्से महाभार आहितस्त्वयि सांप्रतम् ।
						त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ॥
					 
					
						जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि ।
						ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ॥
					 
					
						तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु ।
						मयि चैव यथावत्त्वंसर्वमावृत्य वर्तसे ॥
					 
					
						न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते ।
						सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि ॥
					 
					
						संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति ।
						पृथे बालेति कृत्वा वै सुता चासिममेति च ॥
					 
					
						वृष्णीनां च कुले जाता शूरस् दयिता सुता ।
						दत्ता प्रीतिमता मह्यं पित्रा बाला पुरास्वयम् ॥
					 
					
						वसुदेवस् भगिनी सुतानां प्रवरा मम ।
						अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ॥
					 
					
						तादृशे हि कुले जाता कुले मम विवर्धिता ।
						सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवापगा ॥
					 
					
						दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः ।
						बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ॥
					 
					
						पृथे राजकुले जन्म रूपं चापि तवाद्भुतम् ।
						तेन तेनासि संपन्ना समुपेता च भामिनि ॥
					 
					
						सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि ।
						आराध्यवरदं विप्रं श्रेयसा योक्ष्यसे पृथे ॥
					 
					
						एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् ।
							कोपिते च द्विजश्रेष्ठे कुत्स्नं दह्येत मे कुलम् ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि चतुरधिकत्रिशततमोऽध्यायः ॥ 304 ॥ 
					 3-304-11 अनवमत्य अवमानमकृत्वा ॥ 3-304-13 वस्तुं वासं
						कर्तुम् ॥ 3-304-19 प्रणिधानं चित्तैकाग्र्यम् ॥ 3-304-20 आवृत्यव्याप्य ॥ 3-304-24 अग्र्यं अग्रे देयं मया प्रथममपत्यं तुभ्यं देयमिति
						प्रतिज्ञातमित्यर्थः ॥ 3-304-25 ह्रदमिवागतेति झ. पाठः ॥ 3-304-26
						दौष्कुलेयाः दुष्कुले जाताः । प्रग्रहं निर्वन्यं गताः प्राप्ताः विकुर्वन्ति
						दौष्ठ्यं कुर्वन्ति ॥