अध्यायः 307

कदाचन ऋतुस्नातया सूर्यमनलोकयन्त्या कुन्त्या दुर्वाससा दत्तमत्रपरीक्षणाय तदाह्वानम् ॥ 1 ॥ मन्त्रबलादुपागतेन रविणा स्वेन सङ्गमनङ्गीकुर्वन्त्याः कुन्त्या विभीषिकापूर्वकं सङ्गायानुनयनम् ॥ 2 ॥

वैशंपायन उवाच ।
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये ।
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ॥
अयं वै कीदृशस्तेन मम दत्तो हमात्मना ।
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिति ॥
एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया ।
व्रीडिता साऽभवद्बाला कन्याभावे रजस्वला ॥
ततो हर्म्यतलस्था सा महार्हशयनोचिता ।
प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम् ॥
तत्र बद्धमनोदृष्टिरभवत्सा सुमध्यमा ।
न चातप्यत रूपेण भानोः सन्ध्यागतस्य सा ॥
तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम् ।
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ॥
तस्याः कौतूहरलं त्वासीन्मन्त्रं प्रति नराधिप ।
आह्वानमकरोत्साऽथ तस्य देवस्य भामिनी ॥
प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम् ।
आजगाम ततो राजंस्त्वरमाणो दिवाकरः ॥
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव ।
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ॥
योगात्कृत्वा द्विधाऽऽत्मानमाजगाम तताप च ।
आबभाषे ततः कुन्तीं साम्ना परमबल्गुना ॥
आगतोस्मि वशं भद्रे तव मन्त्रबलात्कृतः ।
किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते ॥
कुन्त्युवाच ।
गम्यतां भगवंस्तत्र यत एवागतो ह्यसि ।
कौतूहलात्समाहूतः प्रसीद भगवन्निति ॥
सूर्य उवाच ।
गमिष्येऽहं यथा मा त्वं ब्रवीषि तनुमध्यमे ।
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ॥
तवाभिसन्धि सुभगे रसूर्यात्पुत्रो भवेदिति ।
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ॥
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि । उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने ।
अथ गच्छाम्यहं भद्रे त्वया संगम्य सुस्मिते ॥
यदि त्वंवचनं नाद्य करिष्यसि मम प्रियम् ।
शप्स्ये कन्येऽन्यथा क्रुद्धो ब्राह्मणं पितरं च ते ॥
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः ।
पितरं चैव ते मूढं यो न वेत्ति तवानयम् ॥
तस् च ब्राह्मणस्याद्य योसौ मन्त्रमदात्तव ।
शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ॥
एते हि विबुधाः सर्वेपुरंदरमुखा दिवि ।
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव मां शुभे ॥
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते ।
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ॥
वैशंपायन उवाच ।
ततोऽपश्यत्रिदशान्राजपुत्री सर्वानव स्वेषु धिष्ण्येषु खस्थान् ।
प्रभावन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानांस्तथैव ॥
सा तान्दृष्ट्वा त्रिदशानेव बाला सूर्यं देवी वचनं प्राह भीता ।
गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एवापचारः ॥
पिता माता गुरवश्चैवयेऽन्ये देहस्यास्य प्रभवन्ति प्रदाने ।
नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा ॥
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो ।
बाल्याद्बालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो ॥
सूर्य उवाच ।
बालेति कृत्वाऽनुनयं तवाहं ददानि नान्यानुनयं लभेत ।
आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु ॥
न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै ।
असमेत्य त्वया भीरु मन्त्राहूतेन भामिनि ॥
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् । `गच्छेयमेव सुश्रोणि गतोऽहं वै निराकृतः' ।
सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे ॥
सा त्वं मया समागच्छ पुत्रं लप्स्यसि माध्शम् ।
विशिष्टा सर्वलोकेषु भविष्यसि न संशय ॥

3-307-3 ऋतुं रजः ॥ 3-307-8 प्राणान् इन्द्रियाणि चक्षुःश्रोत्रादीनि उपस्पृश्य । जलेन सम्यगाचम्येत्यर्थः ॥ 3-307-11 किं करोम्यवशो राज्ञि इति थ. ध. पाठः ॥ 3-307-13 यथाहं गमिष्ये तथा मा मां ब्रवीषि नतु तद्योग्यमित्याह नत्विति । वृथा प्रसादमप्राप्य ॥ 3-307-14 तवाभिसन्धिं सुभगे कुर्यां पुत्रः इति थ. ध. पाठः ॥ 3-307-16 ब्राह्मणं दुर्वाससम् ॥ 3-307-18 विनयं दण्डं धास्यामि धारयिष्यामि ॥ 3-307-22 अपचारोऽपराधः कृतः । व्रीडमानेव बालेति झ. पाठः ॥