अध्यायः 308

कुन्त्या सङ्गमन्तरा दुश्शकानुनये भास्करे कृच्छ्रात्तदङ्गीकरणम् ॥ 1 ॥ सूर्येण पुनः कन्यात्वलाभरूपवरदानपूर्वकं तस्यां गर्भाधानम् ॥ 2 ॥

वैशंपायन उवाच ।
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः ।
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् ।
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ॥
अनागसः पितुः शापो ब्राह्मणस्य तथैव च ।
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि ।
नाऽभ्यासादयितव्यानि तेजांसि च तपांसि च ॥
साहमद्य भृशं भीता गृहीत्वा च करे भृशम् ।
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥
सा वै शापपरित्रस्ता बहु चिन्तयती हृदा ।
मोहेनाभिपरीताङ्गी स्मयमाना पुनःपुनः ॥
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम ।
व्रीडाविह्वलया वाचा शापत्रस्ता विशांपते ॥
पिता मे ध्रियते देव माता चान्ये च बान्धवाः ।
न तेषु ध्रियमाणएषु विदिलोपो भवेदयम् ॥
त्वया तु संगमो देव यदि स्याद्विधिवर्जितः ।
मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः ॥
अथवा धर्ममेतं त्वं मन्यसे तपतांवर ।
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ॥
आत्मप्रदानं दुर्धर्ष तव कृत्वासती त्वहम् ।
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥
सूर्य उवाच ।
न ते पिता न ते माता गुरवो वा शुचिस्मिते ।
प्रभवन्ति प्रदाने ते भद्रं ते शृणु मे वचः ॥
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि ।
तस्मात्कन्येह सुश्रोणी स्वतन्त्रा वरवर्णिनि ॥
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि ।
अधर्मंकुत एवाहं वरेयं लोककाम्यया ॥
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि ।
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥
सा मया सहसंगम्य पुनः कन्या भविष्यसि ।
पुत्रश्च ते महावाद्दुर्भविष्यति न संशयः ॥
कुन्त्युवाच ।
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोनुद । कुण्डली कवची शूरो महाबाहुर्महाबलः ।
`अस्तु मे सङ्गमो देव अनेन समयेन ते' ॥
सूर्य उवाच ।
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् ।
उभयं चामृतमयं तस् भद्रे भविष्यति ॥
कुन्त्युवाच ।
यद्यतदमृतादस्ति कुण्डले वर्म चोत्तमम् ।
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया ।
त्वद्वीर्यरूपसत्वौजा धऱ्मयुक्तो भवेत्स च ॥
सूर्य उवाच ।
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ।
तस्मै दास्यामि वामोरु वर्म चैवेदमुत्तमम् ॥
वैशंपायन उवाच ।
परमं भगवन्नेवं सङ्गमिष्ये त्वया सह ।
यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥
वैशंपायन उवाच ।
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः ।
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥
तत सा विह्वलेवासीत्कन्या सूरय्स् तेजसा ।
पपात चाथ सा देवी शयने मूढचेतना ॥
सूर्य उवाच ।
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि ।
सर्वशस्त्रभृतांश्रेष्ठं कन्या चैव भविष्यसि ॥
वैशंपायन उवाच ।
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् ।
एवमस्त्विति राजेन्द्रप्रस्थितं भूरिवर्चसम् ॥
इतिस्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा ।
तस्मिन्पुण्ये शयनीये पपात मोहाविष्टा वेपमाना लतेव ॥
तिग्मांशुस्तां तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार ।
न चैवैनां दूषयामास भानुः संज्ञां लेभे भूय एवात बाला ॥

इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि रअष्टाधिकत्रिशततमोऽध्यायः ॥ 308 ॥

3-308-2 दध्यौ चिन्तितवती । अन्तरं कालम् ॥ 3-308-4 बालेनाल्पवयसापि सता साधुना मोहाच्चित्तपारवश्यात् तेजासि सूर्यादीनि तपांसि दुर्वासआदीनि नाभ्यासादयितव्यान्यत्यन्तं प्रत्यासत्तिविषयाणि न कर्तव्यानि ॥ 3-308-7 बन्धूनां बन्धुभ्य इत्यर्थः ॥ 3-308-8 ध्रियते जीवति ॥ 3-308-12 प्रभवन्ति स्वाम्यमर्हन्ति ॥ 3-308-13 कामयते सर्वानिति कन्येति कन्याशब्दनिर्वचनम् ॥ 3-308-14 तत्रहेतुः लोककाम्यया लोकप्रियया कामवत्तया ॥ 3-308-15 अन्यो विवाहनियमादिर्विकारः ॥ 3-308-18 अमृतमयं सहजं वर्म ॥ 3-308-26 प्रस्थितं संगमायोपक्रन्तम् 3-308-28 आत्मसंस्थांवचनवशाम् । एनां न दूषयामास । कन्यात्वस्थापनेनेति शेषः ॥