अध्यायः 313

पिपासितेषु पाण्डवेषु युधिष्ठिरनियोगाद्वृक्षाग्रमधिरूढेन नकुलेन नातिदूरे किंचित्सरोविलोकनम् ॥ पानीयानयमाय सरोगतेषु नकुलादिषु यक्षवचनावमत्या पानीयपानेन दीर्घनिद्राश्रवणादनागतेषु युधिष्ठिरेणापि तत्सरोगमनम् ॥

युधिष्ठिर उवाच ।
नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः ॥
भीम उवाच ।
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।
न मया निहतस्तत्रतेन प्राप्ताः स्म संशयम् ॥
अर्जुन उवाच ।
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयं ॥
सहदेव उवाच ।
शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत ।
स मया न हतस्तत्रतेन प्राप्ताः स्म संशयम् ॥
वैशंपायन उवाच ।
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।
एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येऽष्ठस्य शासनात् । तत उत्थाय मतिमाञ्शीघ्रमारुह्य पादपम् ।
अब्रवीद्धांतरं ज्येष्मभिवीक्ष्य समन्ततः ॥
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादस्तत्रोदकमसंशयम् ॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य ततः शीघ्रं तूणैः रपानीयमानय ॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥
यक्ष उवाच ।
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्ध्रातरं वीरं सहदेवमरिंदमम् ॥
भ्राता चिरायते तात सहदेव तवाग्रजः ।
तं चैवानय सोदर्यं पानीयं च त्वमानय ॥
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥
भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः ।
अभिदुद्राव रपानीयं ततो वागभ्यभाषत ॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च ॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ॥
तौ चैवानय भद्रं ते पानीयं च त्वमानय ।
त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः ॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।
आमुक्तखङ्गो मेधावी तत्सरः प्रत्यपद्यत ॥
यतः पुरुषशार्दूलौ पानीयहरणे गतौ ।
तौ ददर्श हतौ तत्रभ्रातरौ श्वेतवाहनः ॥
`विगतासू नरव्याघ्रौ शयानौ वसुधातले' । प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥
नापश्यत्तत्रकिंचित्स भूतमस्मिन्महावने ।
सव्यसाची पिपासार्तः पानीयं सोभ्यधावत ॥
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।
यत्त्वमिच्छसि पानीयं नैतच्छक्यं बलात्त्वया ॥
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिवक्ष्यसि ।
ततः पास्यसि पानीयं हरिष्यसि च भारत ॥
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः । प्रववर्ष रदिशः कृत्स्नाः शब्दवेधं च दर्शयन् ।
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभः ।
स त्वमोघानिषून्मुक्त्वा तृष्णयाऽभिप्रपीडितः ।
अनेकैरिषुसंघातैरन्तरिक्षे ववर्ष ह ॥
यक्ष उवाच ।
किं विधानेन ते पार्थ प्रश्नानुक्त्वा पयः पिब ।
अनुक्त्वा च पिबन्प्रश्नान्पीत्वैव नभविष्यसि ॥
स च मोघानिषून्दृष्ट्वातृष्णया च प्रपीडितः ।
अवज्ञायैव तां वाचं पीत्वैव निपपात् ह ॥
अथाब्रवीद्भीमसेनं कुनतीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च बीभत्सुश्च परंतप ॥
चिरंगतास्तोयहेतोर्न चागच्छन्ति भारत ।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥
भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत ।
रयत्रते पुरुषव्याघ्रा भ्रातरोस्य निपातिताः ॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ॥
सचिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ।
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ॥
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥
यक्ष उवाच ।
मा तात साहसंकार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥
एवमुक्तस्तदा भीमो यक्षेणामिततेजसा ।
अनुक्त्वैव तु तान्प्रश्नान्पीत्वैव निपपात ह ॥
ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः ।
`आत्मनाऽऽत्मानमन्विष्य विचारमकरोत्प्रभुः ॥
ततश्चिरगतान्भ्रातृनथाऽऽज्ञाय युधिष्ठिरः ।
चिरायमाणान्बहुशः पुनः पुनरुवाचह ॥
किंस्विद्वनमिदं दग्धं किंखिद्दृष्टो मृतो भवेत् ।
प्रहरन्तो महाभूतं शप्तास्तेनाथ तेऽपतन् ॥
न पश्यन्त्यथवा वीराः पानीयं यत्रते गताः ।
अन्विच्छद्भिर्वने तोयं कालोऽयमतिपातितः ॥
किंनु तत्कारणं येन नायान्ति पुरुषर्षभाः ।
गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः' ॥
समुत्थाय महाबुद्धिर्दह्यमानेन चेतसा ।
व्यपेतजननिर्घोषं प्रविवेश महावनम् ॥
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ।
नीलभास्वरवर्णैश्च पादपैरुशोभितम् ॥
भ्रमरैरुपगीतं च पक्षिभिश् समन्ततः ।
`मृदुशाड्वलसंकीर्णभूमिभागं मनोहरम्' ॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥
उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः ।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ॥
`ततो धर्मसुतः श्रीमान्भ्रातृदर्शनलालसः' । श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि आरणेयपर्वणि त्रयोदशाधिकत्रिशततमोऽध्यायः ॥ 313 ॥

3-313-1 रूपं विभजति ॥ 3-313-2 प्रेष्यवत् प्रेष्यामिव ॥ 3-313-12 साहसं जलपानरूपम् । परिग्रहो नियमः । यो मत्प्रश्नान्वदेत्स एवेतः पयः पिबेद्धरेद्धेति ॥ 3-313-28 दृश्यमानो भूत्वेति शेषः ॥ 3-313-31 विधानन यत्नेन । रनभविष्यसि मरिष्यसि ॥ 3-313-49 हमजालानि हेमवर्णानि केसराणि तैः परिष्कृतं मण्डितम् ॥ 3-313-50 सिन्धुवारैर्जलजविशेषैः ॥