अध्यायः 029

युधिष्ठिरेण द्रौपदींप्रति क्रोधे बहुदोषोद्भावनपूर्वकं क्रोधगर्हणम् ॥ 1 ॥

`वैशंपायन उवाच ।
द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम् ।
उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः ॥
कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः । येन क्रोधं महाप्रज्ञे बहुधा बहुमन्यसे ।
क्रोधमूलं हरं शत्रुं कारणैः शृणु तं मम' ॥
युधिष्ठिर उवाच ।
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः । इति विद्धि महाप्रात्रे क्रोधमूलौ भवाभवौ ।
यो हि संहरते क्रोधं भावस्तस्य सुशोभने । `यो न संहरते क्रोधं तस्याभावो भवत्युत ।
अभावकारणं तस्मात्क्रोधो भवति शोभने' ॥
यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे ।
तस्याभावाय भवति क्रोधः परमदारुणः ॥
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते ।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि ।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च ।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्ररेत् ।
एतद्द्रौपदि संस्मृत्यन मे मन्युः प्रवर्धते ॥
आत्मानं च परांश्चैव त्रायते महतो भयात् ।
क्रुध्यन्तमप्रतिक्रुध्यन्दूयोरेष चिकित्सकः ॥
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः ।
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः ।
तस्माद्द्रौपद्यशक्तस् मन्योर्नियमनं स्मृतम् ॥
विद्वांस्तथैव यः शक्तः क्लिश्यमानः प्रकुप्यति ।
स नाशयित्वा द्वेष्टारं परलोके न नन्दति ॥
तस्माद्बलवता चैव दुर्बलेन च नित्यदा ।
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः ।
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥
सत्यंचानृततः श्रेयो नृशंसाच्चानृशंसता । तमेवं बहुदोषं त क्रोधं सद्भिर्विवर्जितम् ।
मादृशो विसृजेत्तस्मात्सर्वलोकविनाशनम् ॥
तेजस्वीति यमाहुर्वै पण्डिता दीर्गदर्शिनः ।
न क्रोधोऽभ्यन्तरस्तस् भवतीति विनिश्चेतम् ॥
वस्तु क्रोधं समुत्पन्नं प्रज्ञया परिबाधते ।
तेजस्विनं तं विदुषो मन्यन्ते तत्त्वदर्शिनः ॥
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति ।
नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि ।
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते ।
कालयुक्तं महाप्राज्ञैः क्रुद्धैस्तेजः सुदुर्लभम् ॥
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिनिश्चितम् ।
रजस्तु लोकनाशाय विहितं मानुषान्प्रति ॥
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् ।
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥
यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः ।
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः ।
एवं विनाशो भूतानाममधर्मः प्रथितो भवेत् ॥
आक्रुष्ट पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम् ।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् ।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥
एवं संकुपिते लोके जन्म कृष्णो न विद्यते ।
प्रजानां सन्धिमूलं हि जन्म विद्धिशुभानने ॥
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशाः ।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः ।
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने ।
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम् ॥
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बवीयसा । यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ।
प्रभाववानपि नरस्तस्य लोकाः सनातनाः ॥
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
यस्तमेवं विजानाति स सर्वं क्षन्तुर्महति ॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥
अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च ।
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ॥
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा ।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शभः ॥
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यत्रब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः ॥
`इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ।' क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ॥
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह सन्मानमृच्छन्ति परत्र च परा गतिम् ॥
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥
इति गीताः काश्यपेन गाथानित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्यद्रौपदि मा क्रुधः ॥
पितामहः शान्तनवः रशमं संपूजयिष्यति ।
कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति ॥
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।
कृपश्च संजयश्चैव शममेव वदिष्यतः ॥
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः ॥
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति ।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥
कालोऽयं दारुणः प्राप्तो भरतानामभूतये ।
निश्चितं मे सदैवैतत्पुरस्तादपि भामिति ॥
सुयोधनो नार्हतीति क्षमा मामेव विन्दति ।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः । क्षमा चैवानृशंस्यं च तत्कर्ताऽस्म्यहमञ्जसा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥

3-29-3 भावयिता वर्धयिता । जितःसन्निति शेषः ॥ 3-29-7 पापं न कः कुर्यात् इति क. पाठः ॥ 3-29-11 चरेदाचरेत् ॥ 3-29-12 द्वयोरात्मपरयो- चिकित्सकः दोषापहर्ता । क्रुध्यन्तमप्रतिक्रुध्याञ्जयेल्लोकांश्च शाश्वतान् इति ख. पाठः ॥ 3-29-13 बलीयसामुपरि यदि अशक्तिमान् क्रुध्यते तर्हि आत्मानं देह त्यजति । मनुष्याणामात्मनैव विपद्यते इति ख. पाटः । मनुष्याणां त्यजत्यात्मानमात्मना इति झ.पाठः ॥ 3-29-14 अनात्मन अजितचित्तस्य ॥ 3-29-25 रजः रजोगुणपरिणामः ॥ 3-29-26 स्वधर्मान् अपगः अपहाय गच्छतीति तथा । द्वितीयाया अलुगार्षः ॥ 3-29-27 सर्वं क्षमार्जवादिकम् । अबुद्धीनां मूढैः अतिक्रान्तं लङ्घितम् । अनिन्दिते प्रशस्ते विषये क्षमादौ ॥ 3-29-29 अभिषक्तः तापितः । अभिषजेत्तापयेत् ॥ 3-29-30 आक्रुष्टो वाचा ताडितः । हतोऽन्येनाभिगतः । हिंसितस्ताडितः ॥ 3-29-32 जन्म उत्पत्तिः । तत्रहेतुः । प्रजानां संधिः दम्पत्योः प्रीतिः । एवं संकुचिते लोके इति प्रजानां वृद्धिमूलं हि इति च. क. पाठः ॥ 3-29-33 अभवाय अनैश्वर्याय ॥ 3-29-34 जन्म प्रतिपद्यते । अन्यथा क्रोधप्राबल्ये । पूर्ववयस्येव दम्पत्योर्नाशाज्जन्मासंभव इत्यर्थः ॥ 3-29-36 बलीयसा आक्रुष्टस्ताडितो वाऽशक्तः क्षमते तथा यः प्रभाववानपि क्षमते तस्य लोका इत्यर्थः ॥ 3-29-38 क्षमावतां गाथाः प्रशंसाः । क्षमावतां मध्ये महात्मना ॥ 3-29-40 ब्रह्म ब्राह्मणजातिः । भूतं संचितं तपः भावि च क्षमैव रक्षति ॥ 3-29-41 अति अतिक्रम्य प्राप्नुवन्ति । तदूर्ध्वं पदमिति शेषः । ब्र्हमविदां वेदविदाम् ॥ 3-29-42 यजुषां त्रोताग्निसाष्यकर्मवताम् । कर्मिणां वापीकूपादिधर्मवताम् ॥ 3-29-48 तुष्य तुष्टा भव ॥ 3-29-52 दाता दास्यति ॥ 3-29-53 अभूतये नाशाय ॥