अध्यायः 031

युधिष्ठिरेण द्रौपदींप्रति धर्मस्य साफल्योपपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः ।
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥
नाहं धर्मफलाकाङ्क्षी राजपुत्रि चराम्भुत ।
ददामि देयमित्येव यजे यष्टव्यमित्युत ॥
अस्तु वाऽत्र फलं मा वा कर्तव्यं पुरुषेण यत् ।
गृहे निवसता कृष्णे यथाशक्ति करोमि तत् ॥
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् ।
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ॥
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् । [धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम्]
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ।
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥
अतिवादान्मदाच्चैव मा धर्ममभिशङ्कथाः ।
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः ।
वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥
वेदाध्यायी धर्मपरः कुले जातो मनस्विनि ।
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥
पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते ।
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः ।
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता ॥
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः ।
अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः ॥
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् ।
शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः ॥
एते हि धर्ममेवादौ वर्णयन्ति सदाऽनधे ।
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥
अतो नार्हसि कल्याणि धातारं धर्ममेव च ।
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥
उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान् ।
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति ॥
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम् ।
एतावन्मन्यते बालो मोहमन्यत्र गच्छति ॥
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते ।
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥
प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः ।
कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥
आर्षं प्रमाणमुत्क्राम्य धर्मं न प्रतिपालयन् ।
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते ।
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥
यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भामिनि ।
न वै तस्य परो लोको नायमस्तीति निश्चयः ॥
शिष्टैराचरितं धर्मं कृष्णे मास्मातिशङ्कथाः ।
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।
सैवः नौः सागरस्येव वणिजः पारमिच्छतः ॥
अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः ।
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् ।
विघातेनैव युज्येयुर्न चार्थं कंचिदाप्नुयुः ॥
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च ।
दानमार्जवमेतानि यदि स्युरफलानि वै ॥
नाचरिष्यन्परे धर्मं परे परतरेऽपि च ।
दानमार्जवमेतानि यदि स्युरफलानि वै ॥
ऋषयस्चैव देवाश्च गन्धर्वासुरराक्षसाः ।
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥
फलदं त्विह विज्ञाय धातारं श्रेयसि स्थितम् ।
धर्मं तेऽव्यचरन्कृष्णे स हि धर्म सनातनः ॥
स चायं सफलो धर्मो न धर्मोऽफल उच्यते ।
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथाश्रुतम् ।
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥
एतावदेव पर्याप्तमुपमानं शुचिस्मिते ।
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥
बहुनाऽपि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः ।
तेषां न ध्मजं किंचित्प्रेत्य कर्मास्ति शर्म वा ॥
कर्मणामुत पुण्यानां पापानां च फलोदयः ।
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः । [अपि कल्पसहस्रेण न च श्रेयोऽधिगच्छति ॥]
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः । कृशाङ्गाः सुब्रताश्चैव तपसा दग्धकिल्विषाः ।
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥
न फलादर्सनाद्धर्मः शङ्कितव्यो न देवताः ।
यष्टव्यं च प्रयत्नेन दातव्यं चानमूयता ॥
कर्मणां फलमस्तीह तथैतद्धर्मशासनम् ।
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद काश्यपः ॥
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु ।
विमृश्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप ।
शिक्षस्वैनं नमस्वैनं मा तेऽभूद्बुद्धिरीदृशी ॥
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् । उत्तमां देवतां कृष्णे मातिवोचः कथंचन ॥

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

3-31-1 वल्गु शोभनम् । श्लक्ष्णं सुकुमारम् । नास्तिक्यं वेदविद्विष्टम् ॥ 3-31-8 दोषो दुर्बोध आत्मन इति ट. पाठः । अदोषो दुर्बलात्मनः इति ध. पाठः ॥ 3-31-21 मूढ आजन्म स न नन्दतीति ट. पाठः । आजन्मसु न नन्दतीति ध. पाठः । आत्मानं स विनश्यतीति क. पाठः ॥ 3-31-24 स वै नौः सागरस्येवेति ट. पाठः ॥