अध्यायः 037

युधिष्ठिरेण व्यासोपदिष्टमन्त्रोपदेशपूर्वकमस्त्रग्रहणाय स्वर्गंप्रत्यर्जुनस्य प्रस्थापनम् ॥ 1 ॥ स्वर्गं प्रस्थितेनार्जुनेन यध्येपथमिन्द्रकीलगिरौ तपश्चर्या ॥ 2 ॥ तत्र मुनिरूपिण इन्द्रस्य दर्शनम् ॥ 3 ॥ दिव्यास्त्रदानं याचितेनेन्द्रेणार्जुनंप्रति तपसा रुद्रप्रसादनानन्तरमस्त्रलाभाय स्वर्गागमनचोदना ॥ 4 ॥

वैशंपायन उवाच ।
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः ।
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ ।
सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन् ॥
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः ।
धनंजयंधर्मराजो रहसीदमुवाच ह ॥
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत ।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥
दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम् ।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ॥
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः । संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ।
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ॥
आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत ।
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥
अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा । सग्रामनगरा पार्थ ससागरवनाकरा ॥ भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ॥
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ॥
गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते ।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥
देवतानां यथाकालं प्रसादं प्रतिपालय ।
तपसा योजयात्मानमुग्रेण भरतर्षभ ॥
धनुष्मान्कवची खङ्गी मुनिः साधुव्रते स्थितः ।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥
इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय ।
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ॥
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे । `अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते ॥'
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ।
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ॥
दीक्षितं विधिना तेन यतवाक्कायमानसम् ।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ॥
निदेशाद्धर्मराजस्य द्रष्टुकामः पुरंदरम् ।
धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी ॥
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।
हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज ॥
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत ॥
तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम् ।
अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥
क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि ।
संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव ॥
अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः ।
`सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन् ॥
स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम् ।
मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ ॥
एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा ।
तपोयोगमनाः पार्थः पुरोहितमवन्दत ॥
ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत ।
सहोदरावतिरथौ युधिष्ठिरवृकोदरौ ॥
तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ ।
यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ ॥
अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम् । अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात् । 3-37-29cअस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥
गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम् ।
त्वमेकः पाण्डवेष्वद्य संप्राप्तोसि धनञ्जय ॥
न चाधर्मविदं देवा नासिद्धं नातपस्विनम् ।
द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च ॥
रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः ।
शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता ॥
विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता ।
अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः ॥
आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः ।
स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः ॥
संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः ।
नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय ॥
आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता ।
दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम् ॥
दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता । मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन ।
व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः ॥
तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय ।
त्वादृशेन हि देवानां श्लाघनीयः समागमः ॥
सुहृदां सोदराणां च सर्वेषां भरतर्षभ ।
त्वं गतिः परमा तात वृत्रहा मरुतामिव ॥
तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते ।
सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल ॥
स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम ।
मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् ॥
शतशृङ्गे महाबाहो मघवानिदमब्रवीत् ।
शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि ॥
विदितः सर्वभूतानां दिवं तात गमिष्यसि ।
प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर ॥
मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि ।
अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि ॥
गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि ।
शृण्वतां सर्वभूतानां पुनः पुनरभाषत ॥
तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम् ।
कंचिद्देशमितः प्राप्य तपोयोगमना भव ॥
कर्तुमर्हसि कौरव्य मघवद्वचनं हितम् ।
दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम् ॥
तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ । मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः ॥'
तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा । प्राञ्जलिः पाण्डवंकृष्णा देवानां कुर्वती नमः ।
वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत् ॥
नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम् । `धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः ।
ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय ॥'
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः । प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान् ।
विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ ॥
स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ ।
पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ॥
अवरोधाद्वने वासात्सर्वस्वहरणादपि ।
इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् ॥
मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः ।
ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका ॥
इदं मे परमं दुःखं यः स पापः सुयोधनः ।
दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ॥
तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः ।
यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ॥
`ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ । वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे ॥'
जेता यः सर्वशत्रूणां यः पावकमतर्पयः । जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ ॥'
अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते ।
त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा ॥
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय ।
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥
`वसुदेवस्वसा देवी त्वामार्या पुनरागतम् ।
पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः' ॥
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ।
रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः ॥
न च नः पार्थ भोगेषु न धने नोत जीविते ।
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥
त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते ।
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ॥
आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ।
कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥
बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ ।
प्रयाह्यविघ्नेयैवाशु विजयाय महाबल ॥
ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती ।
इमा वै तव पान्थस् पालयन्तु धनञ्जय ॥
वैशंपायन उवाच ।
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी ।
ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः ।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥
`शनैरिव दिशं वीर उदीचीं भरतर्षभ । संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत ।
असज्जमानो वृक्षेषु जगाम सुमहाबलः ॥'
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः ।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥
सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् ।
दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः ॥
अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः ।
मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः ॥
हिमवन्तमतिक्रम्य गन्धमादनमेव च ।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥
इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनंजयः ।
`गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः ॥
प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत् ।
ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन ॥
समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः' ।
अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा ॥
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः ।
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ॥
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ।
सोऽब्रवीदर्जुनं तत्रस्थितं दृष्ट्वा महातपाः ॥
कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी ।
निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः ॥
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः ।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥
नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित् ।
निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम् ॥
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् । तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् । 3-3783c न चैनं चालयामास धैर्यात्सुधृतनिश्चयम् ॥
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव ।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥
एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः ।
प्राञ्जलिः प्रणतो भूत्वा सूरः कुरुकुलोद्वहः ॥
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे ।
त्वत्तोऽद्य भगवन्नस्त्रंकृत्स्नमिच्छामि वेदितम् ॥
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव ।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ॥
कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम् ।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ॥
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम् ।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ॥
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् ।
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् ।
तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः । अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः ॥

इति श्रीमन्महाभारेत अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

3-37-2 विविक्तेऽवितथप्रज्ञमिति क. पाठः ॥ 3-37-5 दैवं इन्द्रवरुणाद्यस्त्रम् । ब्राह्मं ब्रह्मास्त्रम्. चिकित्सा परप्रयुक्तानां प्रतीकारः ॥ 3-37-6 गुरुवत् गुरुष्विव ॥ 3-37-7 शान्तिं दोषपरिहारं कर्तुं व्यवहरन्ति यतन्ते । शक्तिं सामर्थ्ये न हापयिष्यन्ति त्याजयिष्यन्ति अपितु उद्दीपयिष्यन्ति ॥ 3-37-10 उपनिषत् रहस्यविद्या ॥ 3-37-11 तया प्रयुक्तया सम्यगिति झ. पाठः ॥ 3-37-12 प्रतिपालय प्राप्नुहि ॥ 3-37-13 मार्गं न ददत् अददत् ॥ 3-37-14 बलं सर्वास्त्ररूपम् ॥ 3-37-15 ततः शक्रात् ॥ 3-37-16 दीक्षितः स्वीकृतव्रतः ॥ 3-37-17 अध्यापयत विद्ययायोजितवान् ॥ 3-37-18 अनुजज्ञे गमनाय अनुज्ञातवान् ॥ 3-37-51 ज्येष्टापचयी ज्येष्ठपूजनशीलः ॥ 3-37-55 गौरिति बहुपुरुषभोग्येत्युपहासः ॥ 3-37-56 अभाषत शत्रुर्यत् तस्माद्दुःखादिदं त्वद्वियोगजमिति पूर्वेण संबन्धः ॥ 3-37-69 प्रातिष्ठत महाबाहुः सुमनाः प्रीतिमांस्तदेति क. पाठः ॥ 3-37-71 शुष्मिणओ बलिनः ॥ 3-37-81 विनीतौ, जितौ क्रोधहर्षौ यैः ॥ 3-37-88 कामान् काम्यन्त इति व्युत्पत्त्या इष्टान् ॥ 3-37-90 अप्रतियात्यानिस्तीर्य ॥