अध्यायः 045

अर्जुनेन युद्धप्रस्थानसमये उत्तररथात्सिंहध्वजस्यावरोपणपूर्वकं स्वध्यानसंनिहितस्य हनुमद्ध्वजस्य रथे स्थापनम् ॥ 1 ॥ तथा स्वशङ्खादिशब्दश्रवणवित्रस्तस्योत्तरस्य समाश्वासनपूर्वकं रणायाभियानम् ॥ 2 ॥

वैशंपायन उवाच ।
उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् ।
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ॥
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च ।
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ॥
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् । दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा ।
मनसा चिन्तयामास प्रसादं पावकस्य च ॥
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत् ।
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ॥
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम् ।
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ॥
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः । बद्धासिः सतलत्राणः प्रगृहीतशरासनः ।
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥
सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् । स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः ।
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः ॥
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः ।
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ॥
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम् ।
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ॥
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव ।
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ] ॥
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ॥
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च । वानरस्य निनादेन रथनेमिस्वनेन च ।
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ॥
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ ।
उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् ॥
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः ।
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ॥
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् ।
उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः ॥
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप ।
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ॥
स त्वं कथमिवानेन शङ्खशब्देन भीषितः ।
विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥
उत्तर उवाच ।
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः ।
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ॥
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः । ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् ।
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ॥
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च । अमानुषाणां शब्देन भूतानां निस्वसेन च ।
रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् ॥
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च । ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ।
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥
वैशंपायन उवाच ।
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः ।
स मूढचेता वैराटिरर्जुनं समुदैक्षत ॥
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ॥
स्थिरो भव महाबाहो संज्ञां चात्मानमानय । एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च ।
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः । ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान् ।
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ॥
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् । उत्तरश्चापि संलीनो रथोपस्थ उपाविशत् ।
तं समाश्वासयामास पुनरेव धनञ्जयः ।
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥