अध्यायः 048

कर्णेनात्मश्लाघनपूर्वकमर्जुनपराभवनमिथ्याप्रतिज्ञानम् ॥ 1 ॥

कर्ण उवाच ।
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये ।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः । वासुदेवेन सहितो यदि बीभत्सुरागतः ।
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ॥
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया ।
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ॥
मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ॥
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् ।
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ॥
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम् ।
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ॥
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः ।
खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् ॥
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया ।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु ॥
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति ॥
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव ।
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ॥
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ॥
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ॥
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् ।
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ॥
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः ।
शलभानामिवाकाशे छाया संप्रति दृश्यताम् ॥
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः ।
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ॥
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव ।
पततां पततां घोषः पततां पततामिव ॥
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् ।
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ॥
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम् ।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥
शरजालमहाज्वालमसिशक्तिगदेन्धनम् ।
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ॥
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः ।
संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ॥
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् ।
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ॥
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः । हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥
जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात् ।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया ।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥
कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ ॥

इति श्रीमन्माहाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

4-48-18 बर्हिणां बहिणामिव एकैकस्य पृष्ठेपृष्ठे गच्छतां मयूराणां मयूराणामिव बर्हिबर्हिणराजानां बर्हिणो मयूरस्य बर्हिणैः शरमूले पत्ररूपेण स्थितमयूरपत्रैः राजानां राजमानानां । राजृदीप्ताविति धातोः कर्त्रर्थे पचाद्यचि कृते रूपनिष्पत्तिः । पततां पततां एकैकस्य शरस्य पृष्ठे पृष्ठे निपततां शराणां घोषः पततां मालारूपेण निपतमानानां पततां पक्षिणां घोष इव अखिलैः श्रूयतामिति योग्यक्रियाध्याहारेण संबन्धः । यद्वा बर्हिणां बर्हवतां उत्पन्नबर्हाणामित्यर्थः । बर्हिणं मयूराणामिव पततां पततां पुंखानुपुंखतया क्षणेक्षणे पततां पततां शराणां घोषः पततां पक्षिणां घोष इव पततां दिशिदिशि पततामिति लोडन्तक्रिया । सर्वैः श्रूयतामिति भावः । बर्हिबर्हिणवाजानामिति टo थo धo पाठः ॥ 18 ॥ ॥ अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥