अध्यायः 049

कृपेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् ॥ 1 ॥ तथा स्वेषु एकैकेनार्जुनस्य दुर्जयत्वकथनपूर्वकं संभूयाभियाननिर्धारणम् ॥ 2 ॥

वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः ।
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् ॥
सदैव तव राधेय युद्धे क्रूरतरा मतिः ।
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ॥
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः ।
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः ॥
देशकालेन संयुक्तं युद्धं विजयदं भवेत् ।
हीनकालं तदेवेह अनर्थायोपकल्पते ॥
देशे काले च विक्रान्तं कल्याणाय विधीयते ।
आनुकूल्येन कार्याणामुत्तरं तु विधीयते ॥
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ।
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ॥
एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् ।
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम् ॥
सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् ।
एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत ॥
एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः । एको गन्धर्वराजानं चित्रसेनमरिन्दमः ।
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ॥
पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे ।
आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा ॥
तथा निवातकवचाः कालकेयाश्च दानवाः ।
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा ।
एकैकेन यथा तेषां भूमिपाला वशे कृताः ॥
इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति ।
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् ।
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥
अथवा कुञ्जरं मत्तमेकमेकचरं वने ।
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि ॥
समिद्धं पावकं चापि घृतमेदोवसाहुतम् ।
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ॥
आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् ।
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् ॥
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः ।
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥
अस्माभिरेव निकृतो वर्षाणीह त्रयोदश ।
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् ।
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् ॥
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः ।
युद्धायावस्थितं पार्थमागतं पाकशासनिम् ॥
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः ।
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः ॥
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् ।
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥
न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम् ।
संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ॥ 26 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥

4-49-6 भारं हीति । यथा रथकारेण दिव्योऽयं मया निर्मितो रथः सुदृढाङ्गः अनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते तद्वचसि भारं दत्त्वा देशकालानुकूल्यमनपेक्ष्यैव न व्यवस्यन्ति । योद्धुमेति शेषः । एवं त्वद्वचसि भारं दत्त्वा देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यम् । तवतु वचनं रथकारवचनवदर्शशून्यमिति भावः ॥ 6 ॥ 4-49-10 एकः संयमिनीं जित्वा इति धo पाठः ॥ 10 ॥ ॥ एकोनपञ्चाशोऽध्यायः ॥ 49 ॥