अध्यायः 054

सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरंप्रति तत्पदवीमनु रथयापनचोदना ॥ 1 ॥ तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले कुशलप्रश्नः ॥ 2 ॥ द्रोणेन तत्कौशलश्लाघनम् ॥ 3 ॥

वैशंपायन उवाच ।
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ॥
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥
त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ॥
राजानं नात्र पश्यामि रथानीके व्यवस्थितम् ।
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ॥
उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् ।
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ॥
गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय । यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ॥
वैशंपायन उवाच ।
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ॥
ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम् ।
द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ॥
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत् ।
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ॥
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् । न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ॥
एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते ।
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ॥
आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ॥
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् ।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ॥
दारयन्निव तेजस्वी वसुधां वासवात्मजः । एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः ।
श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ॥ इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ ।
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ॥ इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः ।
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ॥ चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः ।
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ॥ निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् ।
अभिवादयते पार्थः पूजयन्मामरिंदमः ॥ अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः ।
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ॥ द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च ।
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ॥ रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी ।
खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥