अध्यायः 055

अर्जुनेन सेनामध्ये सुयोधनानवलोकनेन तस्य गवामादानेन गमनसंभावनया रथेन गवाग्रं प्रत्यभियानम् ॥ 1 ॥ भीष्मेण पार्थभावविज्ञानात्सेनया सह तमनुधावनम् ॥ 2 ॥ गवान्तिकमुपगतवताऽर्जुनेन तद्रक्षिणां बाणगणैरभिहननेन गवां विनिवर्तनम् ॥ 3 ॥

वैशंपायन उवाच ।
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् ।
नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् ॥
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् । इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम ।
यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् ॥
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् ।
परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् ॥
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् ।
यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः ॥
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् ।
सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि ॥
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः ।
तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः ॥
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् ।
असभ्यानां च वक्तारं कुरूणां किल किल्विषम् ॥
राजानं नेह पश्यामि निरापिषमिदं बलम् ।
अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः ॥
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम् ।
कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ ॥
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः ।
दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः ॥
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः ।
दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः ॥
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः ।
सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः ॥
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति ।
उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः ॥
तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति ।
गवाग्रमभितो याहि यत्र राजा भविष्यति ॥
वैशंपायन उवाच ।
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ॥
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः । चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः ।
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः ।
एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् ॥
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च ।
मृगं सिंह इवादातुमीक्षते पाकशासनिः ॥
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति ।
तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः ॥
न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे । अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात् ।
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ॥
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा ।
दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति ॥
वैशंपायन उवाच ।
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः ।
अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे ॥
विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत् ।
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम ॥
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे ।
याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च ॥
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् ।
गच्छन्ति सत्वरा गावः सगोपाः परिमोचय ॥
तत्र गत्वा पशून्वीर सगोपान्परिमोचय ।
अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर ॥
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम् ।
पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः ॥
वैशंपायन उवाच ।
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः ।
निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान् ॥
शलभैरिव चाकाशं धाराभिरिव पर्वतम् ।
निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना ॥
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः ।
गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः ॥
सा चापि बहुला सेना पार्थबाणाभिपीडिता ।
नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा ॥
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः ।
पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः ॥
तेषां नैवापयाने च नाभियाने भवन्मतिः ।
शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः ॥
चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम् । ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ।
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ॥
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च । शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् ।
वियद्गतानां देवानां मानुषाणां रवेण च ॥
ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः ।
गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं ॥
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा ।
गोपालांश्चोदयामास गावश्चोदयतेति च ॥
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः ।
गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय ॥
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज ॥
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् ॥
वैशंपायन उवाच ।
ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहव ।
दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ॥ हस्त्यश्वपरिवारेण महताऽभिविराजता ।
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ॥ तान्यनीकान्यशोभन्त कुरूणामाततायिनाम् ।
संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ॥ तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च ।
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ॥ तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण ।
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ॥ गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा ।
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चपञ्चासोऽध्यायः ॥ 55 ॥