अध्यायः 056

अर्जुनेनोत्तरंप्रति द्रोणकर्णादिरथानामसाधारणध्वजचिह्नप्रदर्शनपूर्वकं तत्तन्नामनिर्देशेन तत्तत्पराक्रमवर्णनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम् ।
घोराणि कुरुवीराणां पर्यकीर्यन्त भारत ॥
कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम् ।
भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः ॥
तथा रथसहस्रेण भ्रातृभिः परिवारितः ।
पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् ॥
अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥
तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् ।
वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः ॥
जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते ।
शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते ॥
आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः ।
आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः ॥
सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम् ।
अत्रैव चाविरोधेन एष धर्मः सनातनः ॥
यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः ।
ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे ॥
भारताचार्यमुख्येन ब्राह्मणेन महात्मना ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥
ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते ।
भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ॥
ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् । दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥
ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते ।
आचार्यवरमुख्यस्तु कृप एष महारथः ॥
द्रोणेन च समो वीर्ये पितुर्मे परमः सखा ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥
यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः ।
ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः ॥
एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् ।
दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः ॥
यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः ।
अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति ॥
एष वै स्पर्धते नित्यं मया सह सुदुर्जयः ।
जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः ॥
सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः ।
युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी ॥
अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना ।
द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव ॥
महारथेन शूरेण सूतपुत्रेण धन्विना ।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥
यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः ।
एष दुर्योधनस्तत्र कौरवो यशसा वृतः ॥
लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् ।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥
यस्तु श्वेतावदातेन पञ्चतालेन केतुना ।
वैडूर्यमयदण्डेन तालवृक्षेण राजते ॥
हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् ।
रामेण जामदग्न्येन द्वैरथेनाजितः पुरा ॥
शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् ।
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः ॥
ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः । जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः ।
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ॥
इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे ।
रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥

4-56-9 शरीरे प्रहरिष्यतः इति नान्यया युद्धमस्ति मे इति चo धo पाठः ॥ 9 ॥