अध्यायः 057
अर्जुनस्य भीष्मद्रोणादिभिः सह युद्धम् ॥ 1 ॥ अर्जुनेन कर्णस्य पराभवः ॥ 2 ॥
वैशंपायन उवाच ।
अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान् ।
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ॥
कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे ।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
संग्रामशिरसो मध्ये दृम्भते केसरी यथा ॥
शूरोसि यदि संग्रामे दर्शयस्व सभां विना ॥
यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा ।
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता ।
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ॥
वैशंपायन उवाच ।
एवमुक्तस्तथा कर्णः क्रोधादुद््वृत्य लोचने ।
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ॥
नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥
सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् ।
गर्जतां जायते दर्पः स्वरश्च न विषीदति ॥
पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा ।
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ॥
वैशंपायन उवाच ।
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ॥
महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः ।
उवाच स महाराज राजा दुर्योधनस्तदा ॥
न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि ।
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ॥
एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु ।
अयशो नातिवर्तेत लोकयोरुभयोरपि ॥
किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम् ।
तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् ॥
एतावदुक्त्वा राजा वै ह्यभियानमियेष सः ।
तथा दशसहस्राणि वीराणां हि धनुष्मताम् ।
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ॥
वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः ।
अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः ।
अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः ॥
पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन् ।
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ॥
अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः ।
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥
ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम् ।
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ॥
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ॥
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ॥
न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम् ।
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ॥
दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च ।
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात् ।
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ॥
इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके ।
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ ।
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ॥
समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान् ।
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् ।
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि ।
कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ॥
तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः ।
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ॥
अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः ।
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ॥
सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च ।
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ॥
ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश ।
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ॥
निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः ।
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ॥
चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान् ।
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ॥
कौरवाणां गजानां च शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ॥
अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव ।
बडबामुखसंभूतः कालाग्निरिव संवृतः ॥
यथा युगान्तसमये सर्वं स्थावरजङ्गमम् ।
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ॥
तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च ।
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ॥
रणे शक्तिममित्राणां प्रणीयोपनिनाय सः ।
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ॥
सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे ।
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् ।
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ॥
खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव ।
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ॥
अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना ।
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ॥
वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् ।
किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च ॥
ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः ।
नीहारेणेव भूतानि छन्नानीह चकाशिरे ॥
सकृदेव न तं शेकुः कथमभ्यसितुं परे ।
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ॥
तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे ।
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ॥
स तद्धि क्षोभयामास विगाह्यारिबलं रथी ।
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ॥
अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा ।
संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः ॥
संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः ।
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ॥
दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः ।
सततं दृश्यते युद्धे सायकासनमण्डलम् ॥
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन ।
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ॥
महागजसहस्रस्य युगपन्मृद्गतो वनम् ।
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ॥
नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह ।
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ॥
घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे ।
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ॥
कुरुसेनाशरीराणि पार्थेनानाहतान्यपि ।
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ॥
ओषधीनां शिरांसीव कालपक्तिसमन्वयात् ।
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ॥
चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ॥
अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित् ।
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ॥
लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः ।
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ॥
लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः ।
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ॥
बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः ।
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ॥
अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः ।
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ॥
तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान् ।
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ॥
स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत् ।
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ॥
दुःसहं दशभिर्बाणैरर्जुनः समविध्यत ।
दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः ।
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ॥
स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च ।
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ॥
स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः ।
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ॥
ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः ।
सारथेश्च शिरः कायादपाहरदरिन्दमः ।
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ॥
तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे ।
हताश्वसूते विरथे ततोऽनीकमभज्यत ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥