अध्यायः 062

रणाय भीष्मार्जुनयोः समागमे देवैस्तयोः प्रशंसनम् ॥ 1 ॥

वैशंपायन उवाच ।
एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत् ।
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः ॥
बाणान्धनुषि संधाय चतुरः पाकशासनिः ।
भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत् ॥
तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् ।
सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति ॥
नरसिंहमुपायान्तं जिगीषन्तं परान्रणे ।
वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनंजयम् ॥
वैकर्तनात्मजो वीरः संग्रामे लोकविश्रुतः ।
शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः ॥
आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः । मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे ।
तुतोष च ततः पार्थो वृषसेनपराक्रमम् ॥
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् ।
न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम् ॥
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे ।
स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे ॥
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः ।
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् ॥
तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः ।
युगं ध्वजं शरासं च चिच्छेद तरसा रणे ॥
ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः ।
रणमध्यादपययुः पार्थबाणाभिपीडिताः ॥
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् ।
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम् ॥
मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः ।
असौ शान्तनवो भीष्मस्तत्र याहि परंतप ॥
अस्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे ।
घोररूपाणि चित्राणि लघूनि च गुरूणि च ॥
अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप ।
श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा ॥
तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन सांप्रतम् ।
अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम् ॥
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः ।
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति ॥
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् । वायुनेव महामेघं सहसाऽभिसमीरितम् ।
तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा ॥
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः ।
प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः ॥
तथा हि गुप्त एतेषां दुराधर्षः पितामहः ।
हन्यमानेषु योघेषु धनंजयमुपाद्रवत् ॥
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् ।
शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा ॥
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् ।
प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत् ॥
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा । प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् ।
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् ॥
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा ।
नादयामासतुर्द्यां च खं च भूमिं च सर्वशः ॥
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः ।
यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा ॥
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ ।
सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा ॥
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः ।
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ ॥
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत ॥
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ । उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ ।
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ ॥
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च ॥
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति ।
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते ॥
इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् ।
तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः ॥
अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः ।
कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विषष्टितमोऽध्यायः ॥