अध्यायः 063
अर्जुनेन भीष्मपराजयः ॥ 1 ॥
वैशंपायन उवाच ।
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् ।
समार्पयन्महावेगाज्ज्वलतः पन्नगानिव ॥
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः ।
ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् ॥
सारथिं च हयांश्चास्य विव्याध दशभिः शरैः ।
उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः ॥
ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम् ।
ध्वजं च सारथिं चापि विव्याध दशभिः शरैः ॥
तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम् ।
भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥
सन्ततं शरजालाभिराकाशं समपद्यत ।
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः ॥
भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे ।
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥
अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे ।
गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः ॥
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः ॥
तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् ।
व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् ॥
ततस्तानि विसृष्टानि शरजालानि सङ्घशः ।
आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति ॥
ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः ।
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः ॥
ततः प्रासृजदुग्राणि शरजालानि पाण्डवः ।
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् ॥
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः ।
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः ॥
ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन् ।
दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् ॥
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः ।
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् ॥
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ ।
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ ॥
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् ।
कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः ॥
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा ।
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे ।
महास्राणां संप्रयोगं समरे भीष्मपार्थयोः ॥
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ॥
अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् ।
न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् ॥
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे ।
समादाय नरव्याघ्रः सज्यं चक्रे महाबलः ॥
शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये ।
अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून् ।
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे ॥
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् ।
न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः ॥
अथावृणोद्दश दिशः शरैरतिरथस्तदा ।
किरीटमाली कौन्तेयः शूरं शान्तनवं तथा ॥
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् ।
बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् ॥
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः ।
शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् ॥
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः ।
असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः ॥
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः ।
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः ॥
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः ।
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥
तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय चित्रसेनः प्रतापवान् ॥
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः ।
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते ।
सौराणां च महास्राणां विचित्रोऽयं समागमः ॥
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् ॥
उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् ।
उभौ विचित्रकर्माणावुभौ युधि दुरासदौ ॥
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् ।
पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ 4-63-39a[अश्वत्थामा
ततोऽभ्येत्य द्रुतं कर्णमभाषत ।
अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् ॥
इति कर्म समक्षं मे सभामध्ये त्वयोदितम् ।
न तु तत्कृतमेकस्माद्भीतो धावसि सूतज ॥
वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् ।
जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम् ॥
अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा ।
प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया ॥
मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः ।
मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति ॥
शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते ।
पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः ॥
तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् ।
राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ॥]
ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत् ।
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम् ।
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः ॥
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे ।
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् ।
गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः ॥
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥
पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे ।
शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने ॥
यस्य नास्ति समो लोके पितृदत्तवरश्च यः ।
जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः ।
यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः ॥
दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे ।
पृथासुतहितार्थाय पराजित इवाभवत् ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिषष्टितमोऽध्यायः ॥