अध्यायः 064
अर्जुनेन द्रोणादिपञ्चरथान्प्रत्यभियानम् ॥ 1 ॥
वैशंपायन उवाच ।
भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे ।
ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान् ॥
आददानश्च नाराचान्विमृशन्निषुधी अपि ।
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम् ॥
द्रौणिरुवाच ।
कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे ।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा ।
न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम् ॥
कर्ण उवाच ।
नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥
सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् ।
दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति ॥
पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि ।
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम् ॥
अश्वत्थामोवाच ।
को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् ।
विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते ॥
युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात् ।
उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे ॥
वैशंपायन उवाच ।
तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम् ।
त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात् ॥
ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम् ।
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥
बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः ।
आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम् ॥
ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः ।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान् ॥
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।
एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः ॥
न रथानां न नगानां न ध्वजानां न वाजिनाम् ।
अविद्धं निशितैर्बाणैरासीद्द्यूङ्गुलमन्तरम् ॥
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे ।
हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत ॥
यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः ।
एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा ॥
गाण्डीवस्य तु घोषेण पृथिवी समकम्पत ।
मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः ॥
ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः ।
सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान् ॥
संनियम्य हयानेतान्मन्दं वाहय सारथे ।
आचार्यपुत्रं समरे योधयिष्येऽपराजितम् ॥
पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः ॥
एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति ।
विराटपुत्रो जवनान्भृशमश्वानचोदयत् ॥
कर्ण उवाच ।
एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः ।
तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात् ॥
द्रोण उवाच ।
नासौ भयेन निर्यातो महात्मा पाकशासनिः ।
नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः ॥
यद्येनमभिसंरब्धं पुनरेवाभियास्यसि ।
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान् ॥
दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः ।
मुक्तो दिष्ट्या च संग्रामे किं रणेन करिष्यसि ॥
क्रोशमात्रमपाक्रम्य बलमन्वानयामहे ।
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःषष्टितमोऽध्यायः ॥