अध्यायः 067

सोपहासमर्जुनसमाहूतेन दुर्योधनेन पुनः परावृत्याभियानम् ॥ 1 ॥ भीष्मादिभिस्तद्रक्षणाय परितोऽवस्थानम् ॥ 2 ॥ अर्जुनेन तैः सह चिरं प्रयुध्य पश्चात्संमोहनास्त्रप्रयोगः ॥ 3 ॥ उत्तरेणार्जुनचोदनयाऽस्त्रमोहितानां द्रोणादीनां वस्त्रापहरणम् ॥ 4 ॥ अर्जुनेन बाणैर्भीष्माद्यभिवादनम् ॥ 5 ॥

वैशंपायन उवाच ।

आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन ॥
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी ।
ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः ॥
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम् ।
धृतिं कृत्वा सुविपुलां प्रत्युवाच पऩञ्जयम् ॥
सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत । भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च ।
किमर्थं युद्धसमये पलापिष्ये नरोत्तम ॥
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत ।
संन्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः ॥
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः ।
रथं रथेन संगम्य योधयामास पाण्डवम् ॥
तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् ।
दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा ॥
गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः ।
ररक्षतुः कौरवमभ्युपेत्य पार्थान्नृवीरौ युधि सव्यतश्च ॥
भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरंगान् ।
दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा ॥
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् ।
सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरिताऽभ्युपेयुः ॥
सर्वाण्यनीकानि निवर्तितानि संप्रेक्ष्य पूर्णौघनिभानि पार्थः ।
हंसो महामेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी ॥
ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः ।
ववर्षुरभ्येत्य शरैः समग्रैर्मेघा यथा भूधरमम्बुवेगैः ॥
ततोऽस्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम् ।
संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम् ॥
ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः ।
गाण्डीवशब्देन मनांसि तेषां महाबलं प्रवथयांचकार ॥
ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् ।
व्यनादयन्संप्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ॥
संमोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः ।
निःसत्ववेगाः कुरुराजसैन्याः कुडयोपमास्तस्थुरनीहमानाः ॥
ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन ।
उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः ॥
ततो विसंज्ञानि परेषु पार्थः संस्मृत्य संदेशमथोत्तरायाः ।
निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ॥
आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् ।
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ॥
भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः ।
एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसंज्ञैः ॥
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः ।
वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि ॥
महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि ।
हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष ॥
माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि ।
वस्त्राण्युपादाय महारथानां तूर्णं पुनः खं रथमारुरोह ॥
राज्ञश्च सर्वान्कृतसंनिकाशान्संमोहनास्त्रेण विसंज्ञकल्पान् ।
नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः ॥
ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् ।
ते तद्व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥
तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी ।
स चापि भीष्मस्य हयान्निहत्य विव्याध भीष्मं दशभिः पृषत्कैः ॥
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा ।
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः ॥
लब्ध्वा तु संज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् ।
रणात्प्रमुक्तं पुरुषप्रवीरं स धार्तराष्ट्रस्त्वरितो बभाषे ॥
अयं कथंचिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् ।
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्क वीर्यम् ॥
शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् ।
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् ॥
जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन् ।
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ॥
संमोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम् ।
पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि ॥
नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति ।
तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः ॥
भाग्येन युष्मानवधीन्न पार्थः संधिं कुरूणामनुमन्यमानः ।
तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम् ॥
वैशंपायन उवाच ।
दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य ।
अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम् ॥
तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम् ।
निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः ॥
तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः ।
आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम् ॥
तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि ।
गाण्डीवधन्वा प्रहसन्कुरूणां शङ्ख प्रदध्मौ बलवान्बलेन ॥
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे ।
गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय ॥
तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य । आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा ।
गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह ॥
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः । द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये ।
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः ॥
अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति ।
संपातितं भूमितले सरत्नं प्रीतस्तुतो मात्स्यसुतो बभूव ॥
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम् ।
गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः ॥
धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् ।
उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम् ॥
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः ।
जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः ॥
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः । उद्धुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः ।
माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम् ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तष्टितमोऽध्यायः ॥

4-67-11 पूर्णौघनिभानि पूर्वनदीप्रवाहसदृशानि ॥ 11 ॥ 4-67-16 अनीहमानाः अचेष्टमानाः ॥ 16 ॥ 4-67-18 यावद्विसंज्ञास्तावन्निर्याहीत्यध्याहारेण योजना ॥ 18 ॥ 4-67-19 आदस्त्व गृहाण ॥ 19 ॥ 4-67-20 अमूढसंज्ञैः अस्माभिरिति शेषः । सव्यतस्त्वमेवं हि धममाहुर्जितस्येति धo पाठः ॥ 20 ॥ 4-67- 25 संनिकाशान् कृतं कृतकं प्रतिमादि निश्चेष्टतया तत्सदृशानित्यर्थः ॥ 25 ॥ 4-67-45 हिमत्वा च वैराटिमुवाचेति पाठान्तरम् ॥ 45 ॥